अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1083, कुल 2600 में से
संदर्भ में पढ़ें९१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ७ सू० १९ भाष्यप्रकाशः । साक्षात्कारी भवतीति अत्र प्रथमो दुन्दुभिदृष्टान्तः परंपरया ज्ञानजनने । शरीरसमवेतचेष्टया निमित्तभूतस्यात्मनो ज्ञानात् । द्वितीयस्तु बाह्याद् भेदेन ज्ञानजनने । तत्र बाह्यशब्दा रागादि- भेदज्ञापकास्ते शब्दप्रयोजकं नेतरभेदेन प्रत्याययन्तीति तांस्तद्ग्रहणाय न शक्नुयात् । वीणाया वीणावादस्य वा ग्रहणेन तु अयमीदृशः शब्दो न केवलमङ्गुलीसंसर्गप्रयुक्तः, किंतु मनोव्यापार- विशेषप्रयुक्त इति ज्ञायते । अतः स शब्दस्तत्कारणस्य बाह्याद् भेदेन ज्ञापकतया गृहीतो भवति । रश्मिः । माणत्वात् । एतदनुमानद्वारा संघातात्मवान् इत्यनुमितिविषयस्यात्मनोनु अनुमितेरनु पश्चात् चित्तप्र- वेशस्यानुपश्चाद्वा संधानेनुमितिविषयत्वेन ज्ञाने संघट्टने 'संधानं स्यादभिषवे तथा संघट्टनेपि