भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1087, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1087

८३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ७ सू० १९ रायाह स होवाचेति । अविनाशीत्यनेन कार्यवैलक्षण्यं सिद्धवत्कारेणोक्त्वा विषयसंबन्धेन संसारमाह मात्रासंसर्गस्त्वस्य भवतीति । विशेषतस्त्वकथने हेतुमाह यद्वैतन्नित्यादिना, यावत्समाप्ति । चक्षू रूपमेव पश्यति, नात्मानम् । भाष्यप्रकाशः । स होवाचेत्यादि । स होवाच याज्ञवल्क्यः । न वा अरे मोहं ब्रवीम्यविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतीति । अत्र, अविनाशीत्यनेन स्वरूप- नित्यत्वस्य, न विद्यते उच्छित्तिर्येषां तेऽनुच्छित्तयस्तादृशा धर्मा यस्येत्यनुच्छित्तिधर्मेत्यनेन स्वरूपधर्माणां च नित्यत्वस्य बोधनात् कार्यवैलक्षण्यं सिद्धवत्कारेणोक्त्वा विषयसंबन्धेन संसारमाह । मात्रासंसर्गस्त्वस्य भवतीति