भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1090, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1090

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९४१ तन्त्रादिमध्यावसानेषु जीवप्रकरणमित्येव प्रतिभाति । तस्य ब्रह्मता जग- त्कर्तृत्वमित्युत्कर्षः । न तु तस्मादन्यद् ब्रह्मत्वेन वक्तुं युक्तम् । अर्थविरोधाच्च । तस्माद् वेदे सृष्टिवाक्यानामेतन्न्यायेनान्यथार्थत्वान्न ब्रह्म जगत्कारणमिति प्रकृति- भाष्यप्रकाशः। एवं विषयवाक्यं व्याख्याय पूर्वपक्षी स्वाभिप्रायमाह तन्त्रादीत्यादि । नन्वयमात्मा ब्रह्मेति श्रुत्यन्तरे एतस्य ब्रह्मत्वं विहितं, न तु ब्रह्मण एतदात्मत्वमतोऽस्मादात्मनो ब्रह्मणो- ऽतिरिक्तत्वादत्र च जगत्कर्तृत्वजगदात्मकत्वादिरूपब्रह्मलिङ्गादस्य ब्रह्मप्रकरणत्वमेवास्त्वित्याशङ्क्य तत्राह तस्य ब्रह्मतेत्यादि । तथाचाम्यर्हितत्वात् तस्मिन्नेतद्बुद्ध्यमुत्कर्षायोच्यते । ननु किमत्र मानमिति चेदन्यथानुपपत्तिमेव जानीहि । एतावदरे खल्वमृतत्वमित्यनेनाऽमृतत्वस्यात्रैव नियमितत्वान्न तु तस्मादन्यद् ब्रह्मत्वेन वक्तुं युक्तमर्थविरोधाच्च । ब्रह्म ह्यविकारं कार्यं कार्यरूपेण विकुर्यादित्यर्थविरोधादित्यर्थः । सिद्धमाह तस्मादित्यादि । [ अर्थविरोधेन ब्रह्मणः कारणताया बाधितत्वादात्मातिरिक्तब्रह्माभावाच्च वेदे सृष्टिवाक्यानामेतन्न्यायेन अत्रार्द्रैन्धाग्नेरिति दृष्टान्ताद्यथा तत्संसृष्टस्याग्नेर्नानाविधधूमजनकत्वं तथा प्रकृतिसंसृष्टस्यैव जीवस्य रूपनामात्मक- प्रपञ्चजनकत्वमिति सिध्यतीत्येतन्न्यायेन ] जीवस्तुत्यर्थत्वाद्वातिरिक्तं ब्रह्म जगत्कारणमिति जीवाधिष्ठिता प्रकृतिरेव कारणम् । तेन प्रकृतिकारणवाद एव युक्त इति प्राप्ते इत्यर्थः । सूत्रं रश्मिः । त्वमसीति प्रकारद्वयदर्शनात् । न त्वित्यादि भाष्यमवतारयन्ति स्म ननु किमिति । अन्यथेति तथा हि अत्रोपसंहारस्यार्थस्यामृतत्वरूपस्य निर्णायकत्वेन तत्र च ब्रह्मता जगत्कर्तृत्वं चेत्येतद्- द्वयविशिष्टजीवं एतावत्पदेन परामृश्यामृतत्वोक्तिः प्रमितार्थः । जीवस्यामृतत्वं तद्ब्रह्मतारूपार्थान्तरं विनानुपपद्यमानस्तस्योपपत्तये यार्थान्तरकल्पना जीवस्य ब्रह्मत्वकल्पनार्थापत्तिस्तन्मानमिति प्रस्थानरक्षा- कारैर्यापत्तिस्तु प्रत्यक्षेण शब्