अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1095, कुल 2600 में से
संदर्भ में पढ़ें[अत उदाहृतजातीयैः श्रुतिसहस्रैस्तथाप्रतिपादनादत्रापि प्रियत्वबोधनेन नित्यनिरवधिसुखात्मकं तत्स्वरूपम्। आर्द्रेधाग्नेरित्यादिकण्डिकाद्वयेन तत्कार्यं सर्वाणि भूतान्यस्यैव निःश्वसितानीति- कथनादंशाश्च प्रतिपादिता इतीदमपि वाक्यं ब्रह्मपरमेवोचितमित्यर्थः। एतावानर्थस्तद्बोधक- वाक्यसमूहश्च मैत्रेयीब्राह्मणद्वयेपि समानः। अग्रे तु तयोर्भेदः। तत्र यौ द्वावात्मानौ पूर्वं कार्यद्वारा परिचायितौ तयोः किं सर्वथा भेदः किं वा कार्यकारणयोरिव भेदाभेदाइुत अंशांशिनोरिव ताहुत सर्वथा अभेदः तयोः स्वरूपं च किमित्याकाङ्क्षायां मैत्रेय्या अधिकार- परीक्षार्थं प्रथमे ब्राह्मणे 'स यथा सैन्धवखिल्यः' इत्यादिना दृष्टान्तेनाशक्तत्वं 'एवं वा अरे इदं महद्भूतम्' इत्यादिना दार्ष्टान्तिकस्य जीवस्य स्वरूपं च वदति। स यथा सैन्धवखिल्यः स जीवः सिन्धुरुदकं तत्र भवं सैन्धवं लवणं तस्य खिल्यः सकलः उदके जले प्रास्तः प्रक्षिप्तः सन् उदकमेवानुवेषाधारभूतमुदकमेव लक्ष्यीकृत्य विलीयेतोदकभावमापद्येत नाहास्य न कश्चिदस्य सैन्धवखिल्यस्योद्ग्रहणाय उद्धृत्य पूर्ववत् ग्रहणायेव स्यात् इवशब्दोऽनर्थकः शक्तः स्यात् । यतो हेतोर्यतः यस्मादुदकदेशादाददीत आस्वादनाय तद्गृह्णीयात् लवणमेव लवणरसमेवास्वादयेत् । अतो लवणभावेनांशत्त्वेपि उदकरूपेणैव तस्य सत्ता । न तु खिल्यभावेनेति लयदृष्टान्तं व्याख्याय 'एवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति' इति लयं निरूप्य यथायं लवणदृष्टान्त एवमेवारे मैत्रेयि इदं जीवात्मतत्त्वं महदादिलक्षणकत्वाद्ब्रह्मैव महदनवच्छिन्नं भूतं सिद्धं अनन्तमविनाश्यपार- मनाद्यविद्यज्ञानघने ज्ञप्तिमात्रस्वरूपे एव । प्रथमान्तपक्षे ज्ञप्तिस्वरूप एव इत्यर्थो वाच्यः । तादृशः सन्नेव एतेभ्यः स्थूलसूक्ष्मशरीराकारेण परिणतेभ्यो भूतेभ्यः समुत्थाय भूर्भुवरङ्गन्यादिभ्यो रसः सैन्धवभावमिव परामिध्यानादहमाविशेषफलमोक्तृभावं प्राप्य तेन स्वस्वरूपं ज्ञापयित्वा तानि विनश्यन्ति सन्ति अनु पश्चात् विनश्यति भोक्तृभावं त्यजति न प्रेत्य संज्ञास्ति वियुत्पन्नन्तरं संज्ञा देवमनुष्यादिसंज्ञा नास्ति किंतु ज्ञप्तिमात्रस्वरूप एव भवति । इत्येवं लये संज्ञाभावं व्याख्याय बह्निरूपनार्ये मिष्टोदके तन्नश्वेपे अविभागदशायामपि भेदज्ञानान्न संज्ञाया अभावे इति मैत्रेय्या मोहो जातः प्रेत्य सम्यग्ज्ञानाभावः कथं किमात्मनः स्वरूपनाशादुत दर्शनाभावात् तत्र यदि स्वरूपनाशात्तदा विज्ञानघने आत्मनि अनन्तमपारमिति विशेषणाभ्यां अनादिनिधनत्वं यदुक्तं तत्कथं संगच्छते अहं च कथममृता भविष्यामि यदि दर्शनाभावात् तदा स्वरूपसद्भावे कथं दर्शनाभाव इति मैत्रेय्या मोहे जाते याज्ञवल्क्यः आत्मन स्वरूपसद्भावमभिप्रेत्य सर्वात्मना दर्श- नाभावस्य प्रकारमाह यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्युपक्रम्य जिघ्रति अभिवदति शृणोति मनुते विजानातीत्यन्तमाह यत्र यस्यां विभागदशायां हि निश्चये तद् द्वैतमिव भवति वास्तवेद्वेताभावेपि द्वैताविशिष्टमद्वैतं भवति तत्र इतर इतरं पश्यत्येवं सर्वेन्द्रियव्यापारजनकमेदक- धर्मस्य स्थूलसूक्ष्मदेहरूपस्य सत्तायां द्वैतदर्शनकथनपूर्वकं यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् जिघेत् अभिवदेत् शृणुयात् मन्वीत विजानीयात् येनेदं सर्वं विजानाति तं केन विजा- नीयाद् विज्ञातारमरे केन विजानीयादित्यन्तेन । यत्राविभागदशायामेतदीयभेदकधर्मस्य स्थूलसूक्ष्मदेहरूपस्य लये कटककुण्डलाकारद्वये तयोः सुवर्णभावे कटककुण्डलादिकार्यभूतहस्तकर्ण-