भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1097, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1097

भाष्यप्रकाशः। सर्वेन्द्रियजन्यज्ञानाभावस्य स्वरूपं प्रकारबोध्यते तथा हि यद्वै तन्नेत्यत्रानुस्वारस्य परसवर्णः। तं प्रज्ञानघनमात्मानं यन्न पश्यति तत्पश्यन् वै तद्द्रष्टव्यं न पश्यति द्रष्टव्यत्वेन पश्यति । ननु रूपमप्यात्मा इति द्रष्टव्येन दर्शनसत्त्वे कथमदर्शनमित्याकाङ्क्षायामदर्शनमुपपादयति नहीत्यादि । अदर्शनं लोपः विरुद्धः सर्वतो लोपः विपरिलोपः दृष्टेरिति पञ्चमी घ्राणादित्या प्रायपाठात् हि यतो हेतोः द्रष्टुर्दृष्टेर्विपरिलोपः द्रष्टुरात्मनो दृष्टेः दर्शनात् विपरिलोपः विरुद्धदर्शनसामर्थ्य- कृतं अदर्शनं न विद्यते तत्र हेतुरविनाशित्वात् । ज्ञानात्मकस्य स्वरूपस्य धर्मस्य च नित्यत्वात् । तेन जीवस्य पश्यत्त्वम् । तर्हि कथमपश्यत्त्वं तत्राह न त्वित्यादि । यदन्यत्कार्यं रूपमिन्द्रियं करणं विभक्तमंशरूपं जीवरूपं द्रष्टृ पश्येत् परमात्मविषयकं दर्शनं कुर्यात् तन्न ततः परमात्मनः सकाशात् द्वितीयमन्यद्विभक्तं नास्ति तथा च दर्शनसाधनस्य द्रष्टुश्च परमात्मनः सकाशादन्यत्वाभावेन विभक्तत्वाभावेन च द्वितीयत्वाभावात् द्रष्टव्यत्वेनादर्शनं तथा च सामान्यतो द्रष्टव्यत्वेन रूपात्मकस्यात्मनो दर्शनात् पश्यत्त्वं तेन मात्रासंसर्गात् द्रष्टृदृश्यव्यवहारदशायां विशेषतः कारणत्वेनाविभक्तत्वेन द्वितीयत्वेन च अदर्शनादपश्यत्त्वमित्युभयमपि संगच्छते एवं सर्वत्रापि । ननु तर्हि ज्ञानस्वरूपत्वात् ज्ञानधर्मकत्वाच्च द्रष्टृत्वे सिद्धे स्वरूपेणैव परमात्मानं कुतो न पश्यति इत्यतः किंचित्पाठभेदेन पूर्ववदाह यद्वा अन्यदिव स्यादित्यादि तथा च स्वरूपे धर्मे च विद्यमानेपि अज्ञाने लीनत्वेन द्रष्टृदृश्यभावाभावात् न विजानीयादित्यर्थः । तथा च साधकस्य संसारदशातो- ऽग्रिमे लोकान्तरे मात्रारूपविषयसंसर्गे सत्यपि तस्य संसर्गसैतादात्म्येऽनुसंहिते द्वितीयत्वाभावा- त्सम्यग्दर्शनाभावः । मुक्तौ तु अविभागे सति द्रष्टृदृश्यत्वाभावात् सम्यग्ज्ञानाभावः । तेन अत्राविभक्ततया ब्रह्मात्मकत्वेनावस्थाने ब्रह्मैव विज्ञाय सर्वज्ञेयं तु वृत्तिमात्रस्वरूपो वृत्तिधर्मा न कार्यकारणशक्तिरहितस्तिष्ठति न तु सविषयज्ञानवान् । इदमेवामृतत्वमित्युपसंहरति । उक्तान- शासनासि मैत्रेयि एतावदरे खल्वमृतत्वमिति प्रवव्राजेति च । तत एतस्य ब्राह्मणस्य पूर्वब्राह्मणार्थ- निर्णायकं इत्याशयेन सिद्धमाहुः अतो वाक्येत्यादि । एवं प्रकृतिकारणवादे निरस्ते यो याज्ञ- वल्क्येनोक्तः परमात्मा स मैत्रेय्या श्रुत इति पूर्वोक्तरीत्या मननं निदिध्यासनं च तया कर्तव्यं मोक्षेच्छायां ततः साधनपरिपाकेन दर्शने मुक्तौ जीवस्य विज्ञातृभावरूपो ब्रह्मभाव इति फलं सिद्ध्यति । एतदेव तत्त्वदीपे तत्प्रकाशे चाचार्यैः- 'व्यापकत्वश्रुतिस्त्वस्य भगवत्त्वेन युज्यते । आनन्दांशाभिव्यक्तौ तु तत्र ब्रह्माण्डकोटयः । प्रतीयरेन् परिच्छेदो व्यापकत्वं च तस्य तत्' ॥ इत्यनेनोक्तं व्याख्यातं च । किं चायमेव संवादो न प्रेत्यसंज्ञास्तीति प्रेत्यसंज्ञाभावं बोधयन् एतावदेव खल्वमृतत्वमिति मोक्षसैतावत्त्वं च बोधयन् निःसंबन्धो निरानन्दो मोक्ष इतिवादमुत्था- पयति तथा आत्मनः प्रज्ञानघनं नित्यमेकरसं स्वरूपं बोधयन् अनुच्छित्तिधर्मपदसद्भावान्नाविरुद्ध- व्याख्यानस्त्वद्वैतिमते निर्धर्मकनिर्विषयकनित्यज्ञानात्मकस्वरूपेणावस्थानं मोक्ष इतिवादमुत्थापयति सिद्धान्ते तु आनन्दधर्मस्य प्रियत्वस्य परमात्मनिष्ठत्वात् परमात्मनश्च सर्वत्रैव जीवेप्यन्वयात् सोपि धर्मो मुक्तावभिव्यज्यते । अनुच्छित्तिधर्मपदं च धर्मनित्यत्ववाचकमिति पूर्वं व्याख्यातम् । तच्च सति जीवीयज्ञानपरिमाणादीनां धर्माणां नित्यत्वात् निर्विषयकज्ञानस्वरूपः सविषयकज्ञानधर्मो 1000