अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1102, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५३ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥ नियतधर्मवादिनामपि मतेन प्रकृते सिद्धान्तं वक्तुं पक्षान्तराण्याह । तत्र ब्रह्मवादैकदेशिवादाः सन्ति । तत्र जीवो नाम स्वस्य भोगनिष्पत्त्यर्थं स्वांशो भगवता कृतो विस्फुलिङ्गवदित्याश्मरथ्यो मन्यते । अनादिसिद्ध एव जीवश्चै- तन्यमात्रं शरीरादिसंघाते प्रविष्ट इति चिति तन्मात्रेण प्रवेशो च मोक्ष इति च औडुलोमिराचार्यः । काशकृत्स्नस्तु आसक्त्या विषयभोक्तृरूपं भगवत एव जीव इति । तेऽपि स्वमतानुसारेणात्र परिहरन्ति । तत्र पुत्रादिप्रियसहवचनाज्जी- वप्रकरणमेवैतदित्याशङ्क्य जीवोपक्रमस्यान्यत् प्रयोजनमित्याह । प्रतिज्ञा- सिद्धेरिति षष्ठी । तस्यां लिङ्गमंशत्वाज्जीवस्य तदभेदेनोपक्रमः प्रतिज्ञासिद्धेर्लिङ्गं भवति । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञा । भाष्यप्रकाशः । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥ सूत्राण्यवतारयन्ति नियतेत्यादि । अत्रोक्तं प्रियत्वं जीवधर्म एवेतिवादिनां मतेन मैत्रेयीब्राह्मणे प्रकृतिवादनिरासरूपं सिद्धान्तं वक्तुं संप्रत्यर्थे पक्षान्तराण्याहेत्यर्थः । अत्र आश्मरथ्यमते श्रुतिर्भाष्य एव सूचिता । औडुलोभिमते तु, 'यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं यन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' ॥ इति मुण्डके श्रुतिर्मूलं बोध्यम् । नामरूपेति लीये नामरूपे । नदीदृष्टान्ताच्च भिन्नत्वं शरीरे प्रवेशश्च नामरूपव्याकरणश्रुत्या । चैतन्यात्मकत्वादिकं तु भाष्य एव स्फुटम् । काशकृत्स्न- मतेपि व्याकरणश्रुतिः 'सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन्यदास्ते' इति पुरुषसूक्त- श्रुतिश्च मूले इति बोध्यम् । पुत्रादिप्रियसहवचनादित्यादि पुत्रादिरूपा ये लौकिकाः प्रियास्तैः सह वचनादात्मनोऽपि लौकिकमेव प्रियत्वं प्रतीयत इति जीव एवात्रात्मपदेन परामृश्यते । अतो जीवप्रकरणमेवेदमित्याशङ्केत्यर्थः । तदभेदेनेति ब्रह्माभेदेन । एकविज्ञानेन सर्वविज्ञानमिति रश्मिः । 'अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत्' ॥ इति व्यापकजीवो जीवन्मुक्तोपि आध्यात्मिकादित्रितयविदाश्रयः प्रकृतिरपि न समवायिनी किं तु प्रियत्वरूपब्रह्मधर्माविष्टो जीव इति भगवानेवाश्रयः इति सिद्धम् ॥ १९ ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥ एवेति निराकारे आश्मरथ्योररीकृते द्वितीय- पादे प्रियत्वं साधितम् । नियतो जीवधर्म इत्येवकारः । 'भाष्ये । सन्तीति कृष्णद्वैपायनमता- देकदेशविदः परे । 'वदन्ति ते यथाप्रज्ञं न विरोधः कथंचन' इतिपाद्मात् । स्वस्येति निराकारस्य द्वितीयपादे आश्मरथ्यमतकथने उक्तत्वात् । व्यासमते स्वसिद्धान्ते तु स्वस्य 'अनश्नन्नन्योभिचाकशीति' इति श्रुतेर्जीवस्यैव भोगः । 'भगवतेति निराकारेणेत्येव साकारेनेति वार्थः । तदभेदेनेति क्व जीवस्येवोपक्रम इति शङ्क्यम् । गौणमुख्यन्यायबाधात् प्रतिज्ञासिद्धेश्च । प्रकृते । जीवात्मन्यैक्यम- 1005