अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1113, कुल 2600 में से
संदर्भ में पढ़ेंस्वार्थस्यैव तत्प्रयोगात् । अन्यथा तद्वैयर्थ्यस्य वज्रलेपायितत्वात् । न चाद्वितीयपदेन मुख्यत्व- मेव विव्रियत इति वाच्यम् । एकमेवेत्यनेनैव समाभ्यधिकराहित्ये सिद्धे व्याख्यानापेक्षाया एवाभावात् । तेनासिद्धावनेनाप्यसिद्ध्या सुतरां तदभावाच्च । एतेनैव, 'नान्यत् किंचन मिषत्' इत्यन्तरनिषेधपरत्वमपि दत्तोत्तरम् । 'साक्षी चेता केवलो निर्गुणश्च', 'यदा तमस्तन्न दिवा न रात्रीर्न सन्न चासञ् शिव एव केवलः' इति सर्वभूतवति काले तद्रहिते तमोज्ञशेषाङ्किते च काले ब्रह्म एव केवलत्वभावनेन, यदा तमस्तत् स्वेनेकीभूतं तदा केवलो न शरीरीत्यर्थव्य- क्तेर्लिङ्गत्वापूरक एव निषेधपर्यवसानसिद्धेश्च । न च कालोक्तिविरोधः तस्याः सुश्रूषुरव्य- वहारे सर्वधारतया प्रतीयमानकालोपरञ्जनेन पूर्ववृत्तान्तबोधनार्थत्वात् । अन्यथा शिष्यस्य सृष्टिकालीनत्वेन कालसत्त्वमवधारय