भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1200, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1200

An accurate, line-by-line transcription of the Sanskrit page in Markdown format:

भाष्यप्रकाशः। जाग्रत्यपि मायाकृतं पराभवं मायासत्तां चानुभावयति 'स्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव छात्र न विजानात्यनुभूतेर्माया च तमोरूपानुभूतेः' इति । अत्र अविषयज्ञानरूपत्वं जीवस्वरूपस्य स्वप्रकाशत्वे जानत्त्वे च हेतुः। तथा च अहमज्ञ इति जाग्रति विशिष्टानुभवबलात् तत्कृतः परा- भवस्तस्याः स्वरूपं सत्ता च बोध्या। तथा च दृष्टान्तदार्ष्टान्तिकयोर्दोषतौल्यात् तस्य च माया- ख्यदोषस्य निद्राचिन्ताद्यवस्थाभेदेनानुवर्तमानत्वाज्जाग्रत्यपि सर्वस्य स्वस्मिन् परमात्मभेदस्य च मायिकत्वं मन्तव्यमित्यर्थः । ननु तत्कृतपराभवस्य मायायाश्चानुभवादस्तु भेदस्य मायि- कत्वम्, परंतु सर्वस्य जगतः कथं मायिकत्वमित्याकाङ्क्षायां जगतस्तत्त्वारथे हेतुबोधनाय तत्स्व- रूपमनुभावयन् हेतुस्वरूपमनुमापयति 'तदेतज्जडं मोहात्मकमनन्तं