भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 122, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 122

खपुष्पं पश्याभ्यनुभवामि प्रत्येमीत्याद्यप्रत्ययान् मरीचितोयादीनां चारोपितरूपेण विषयत्वात् । रश्मिः । 'संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते' इति । असतोपि तोयादेर्विषयत्वं दृश्यते इति चेत्तत्राह मरीचीति । आरोपितरूपेणेति । अयं भावः । भाट्टास्तावद्भ्रमः स्मृतेर्नातिरिच्यत इत्यख्यातिं वदन्ति, संस्कारजन्यत्वाविशेषात् । न च तत्तास्फुरणापत्तिरिति शङ्क्यम् । कर्तृदोषेण तत्प्रमोषात् । दोषाभावे तु रजतस्फूर्तिर- धिष्ठानस्फूर्तिर्वा भवेत् । दोषाश्च रागादयः क्वचित्प्रबलालोकादिना विवेकासामर्थ्यं क्वचि- दन्यचित्ततेत्येवमादयो अननुगतास्तथातथादर्शनादुन्नेयाः । अतः प्रमुष्टतत्ताका स्मृतिरेव भ्रमस्थले ज्ञेया । प्राभाकरास्तु रजतमनुभवामीत्यनुव्यवसायबाधं स्मरामीत्यनुव्यवसायापत्तिं च पश्यन्तो ग्रहणस्मरणात्मकं ज्ञानद्वयमगृहीतासंसर्गकमत्र ख्यातिरूपमिति वदन्ति । स्मृति- प्रमाणभेदेन ज्ञानस्य द्वैराश्यात् । न चानुव्यवसायद्वयापत्तिरिति वाच्यम्, स्मरणाभिमानस्य दोषेण प्रमोषात् । तस्माद्विविक्तज्ञानद्वयाङ्गीकारे न कोपि दोष इति । अत्राप्येकज्ञानतौल्येन ज्ञानद्वयस्याशक्यवचनत्वात् । न च तौल्यं नास्तीति वाच्यम् । यद्यगृहीतासंसर्गकं ज्ञानद्वयं स्यात्, एकज्ञानतुल्यता न स्यात्, यदि न स्यात् सा व्यवसायानुव्यवसायोर्नोपलभ्येतेति तर्केण तन्मूलभूतव्यवसायानुव्यवसायाभ्यां चैकज्ञानतुल्यत्वनिश्चयात् । अपि च, ज्ञानद्वैराश्याग्रहेणात्र ज्ञानद्वयाङ्गीकारे सर्वत्र विशिष्टज्ञानोच्छेदः । घटोयमिति प्रमायामप्यगृहीतासंसर्गकवद्गृहीतज्ञानद्वयस्य शक्यवचनत्वात् । द्वैराश्ये मूलस्य चिन्त्यत्वाच्चेति मतद्वयेपि दोषान् पश्यता भवतानिर्वचनीया ख्यातिरादृता । इत्थं हि त्वदीयं व्युत्पादनम् । प्रमा द्वेधा । तत्र तत्त्वमस्यादिवाक्योत्था पारमा- र्थिकी, संसारप्रमा व्यावहारिकी । साचेत्थं संविच्चातुर्विध्यं धत्ते । तत्रान्तःकरणवैशिष्ट्येन प्रमातृताम्, अन्तःकरणवृत्तिवैशिष्ट्येन प्रमाणाताम्, घटादिवैशिष्ट्येन विषयताम्, अन्तःकरणवृ- त्यभिव्यक्तत्वेन फलतामिति । पूर्वमिन्द्रियार्थसन्निकर्षः, ततश्चान्तःकरणस्य चक्षुरादिद्वारा विषय- देशगमनम्, तेन संयोगस्तदाकारेण परिणामो वृत्त्यात्मकः । यथा तडागोदकं छिद्रान्निर्गत्य कुल्याद्वारा केदारं प्रविश्य चतुःकोणाद्याकारेण परिणमते । तत्र परिणामे विषयसंवित्प्रतिफलनं भवति । तदैकदा वृत्तिविषययोरवस्थितिरेकदेश इति तत्प्रयुक्तभेदस्याकिंचित्करत्वात् तत्संविदोरेक्यम् । तदिदं प्रत्यक्षप्रमा तया च वृत्त्यावरणसहिताज्ञाननिवृत्तिः । ततोन्तःकरणविशिष्टसंविदा विषयस्फुरणमिति । यदा तु इन्द्रियविषययोर्दोषः, तदा भ्रमः । स च सदसद्विलक्षणत्वादनिर्वचनीय इति । तदिदं खपुष्पोल्लासमात्रम् । आरोपितरूपेण बुद्धिरूपेण विषयत्वात् । तथा हि । अहंकार- भेदरूपा बुद्धिः स्थिरा मूर्ता सच्चिदानन्दब्रह्मभिन्ना स्यायत इति अन्यख्यातिरेवोचितेति । एतद्वै- शिष्ट्यज्ञानप्रमादीनां द्वितीयाध्यायोपान्ते 'प्राणवता शब्दात्' इत्यधिकरणे विस्तृतनिरस्ती वक्तव्ये इति ते अत्र नोच्येते । नन्वभावे सत्त्वस्य वक्तुमशक्यत्वादतीतानागतस्थलेऽर्थवियुक्तैव संविद्व- र्तमानकालेप्यर्थो मिथ्या दृश्यत्वाच्छुक्तिरजतवदिति अनुमानेनार्थोऽनिर्वचनीय इति नायं नियाम- कतेति शङ्कते न चेति । ननु चाभावत्वेन प्रत्ययात्सतोतिरिच्यत इति चेत्, न । घटे ध्वस्ते तद्द्रव्यं

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 122, कुल 2600 में से · BharatKosha