अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1247, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३ भाष्यप्रकाशः । तत्र ग्रहीतुं शक्यत्वेन जीवप्रज्ञाया एव ग्रहणे नियामकाभावात् । 'न जायते न म्रियते' इति श्रुतेस्तद्विनाशशङ्काया एवानुदयाच्च । न च नास्तिकनिरासाय तत्साधनमिति वाच्यम् । तदर्थ श्रुतेरवक्तव्यत्वात् । 'सदेव' इति श्रुतेरविभागाद्वैतसाधकत्वमपि यथा । तथासत्यद्वितीयपदकोपस्य प्रागेव दर्शितत्वात् । न च, 'न तु द्वितीयमस्ति ततोऽन्यद्विभक्तम्' इति, 'पृथग्विभक्ता प्रलये च गोप्ता' इति, 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इत्यादिश्रुतिस्मृतिभिः समन्वयसूत्र एवाद्वितीयपदस्याविभागपरताया विचारितत्वान्न तत्कोप इति वाच्यम् । आद्यश्रुतेः सृष्टिदशायां विभागे सत्यपि मूलविचारेण दर्शनादर्शनयोरुपपादकतयोपन्यासस्य प्रकरणादेवावगमेन सृष्टि- रश्मिः । ब्रह्मणानन्यैक्ये तु तथा । अनुपपत्तेरिति । ब्रह्मण आरम्भासंभवात्तथा । सदेवेति इदं जगत्सदेव ब्रह्मैव आरम्भणशब्दादिभ्य इत्यादिशब्दगृहीतानाम् । पूर्वेति । लोकवदिति दृष्टान्तः । ब्रह्मणानन्यत्वं दार्ष्टान्तिकम् । वैषम्यमिति । सालोक्यवत्तदनन्यत्वमित्यत्र । उपसर्गेति सूत्रस्य शब्दतोतिरिक्त- समनूपसर्गद्वयघटितत्वेन । अवान्तरेति दैनन्दिनप्रलये । यदा तम इति तमःशिवपदेऽनभिव्यक्ते कल्याणे च रूढे समाकर्षात् । न च न विरोधापत्तिरविभागाद्वैतेऽप्यर्थसङ्गतेरिति वाच्यम् । अवान्तरस्फुरण- विषयत्वात् । ननु 'यथा मधु मधुकृतो निस्तिष्ठन्ति' इत्याद्युपदेश इति चेन्न । नानावादानुरोधित्वात् । 'आचार्यवान्पुरुषो वेद' इति श्रुतिविरोधोऽप्यत एव न । अधिकारभेदाच्च । तथा च स्वमतप्रति- पिपादयिषिताद्वैतस्य 'शत ऽमृक्ताणि' इत्यत्राभावात् स्वमते श्रुतीनां विरोधापत्तेरित्यर्थः । किंचादिपदेन 'मनसैवावाप्तव्यम्' 'नेह नानास्ति किंचन' इत्युक्त्वा तदेकवाक्यतया 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' 'मनसैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम्' इत्याहृतम् । सृष्टीति । न चेच्छामात्रेण सृष्टिकरणम् । इच्छाया अपि क्रियावाचिभ्वादिनिष्पन्नत्वेन क्रियात्वात् । तद्विनाशोति जीव- विनाशशङ्कायाः । तत्साधनमिति विनाशसाधनम् । तदर्थमिति प्रतियोगिज्ञानार्थं पूर्वोक्तायाः श्रुतेः प्रामाणिकत्वार्थमेवकारो बाह्यमतव्यवच्छेदकः । सदेवेति श्रुतेरिति षष्ठ्यन्तं पदम् । तथा सतीति नानात्वब्रह्मरसेषु कारणाभेदप्रयुक्तेनानात्वे सति । प्रागेवेति समन्वयसूत्रे । सृष्टिभेदवादोक्तरीत्याहुः आद्यश्रुतेरिति । यथा नैयायिकैः कपालद्वयादिसंयोगाद्यादिसृष्टिसिद्धविभागस्यसृष्टिवादे साधिता तादृशविभागे सत्यपि । मूलेति द्वितीयनिषेधत्वेन मूलविचारत्वेन कार्यकारणभावः । दर्शनविभागसादर्शनं च । पूर्वश्रुतौ विभागाविभागोपपादकतयोपन्यासस्य । न तु द्वितीयमस्ती- त्यविभागः । अन्यद्विभक्तमिति विभागः । प्रकरणाद्धीति । प्रकरणं सुषुप्तेः । बृहदारण्यके ज्योति- र्ब्राह्मणे 'यद्वै तन्न पश्यति पश्यन्वै तद् ( द्रष्टव्यं ) न पश्यति । नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविना- शित्वािन्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इति श्रूयते । सुषुप्तौ तद्ब्रह्म न वै नैव पश्यतीति यज्ञानासि तत्पश्यन्नेव द्रष्टव्यं न पश्यति यतो जीवस्य द्रष्टुर्दृष्टेर्ज्ञानस्य विपरिलोपोऽदर्शनं न विद्यते- ऽविनाशित्वात् । पश्यन्नेव न पश्यतीत्यत्र हेतुः न त्विति । जीवाद्वितीयं प्रमातृस्वरूपम् । अन्यच्च- क्षुरादिकं विभक्तं स्वरूपाच्चास्तीति सुषुप्तिविचारात् । न च प्रकरणमविभागमात्रस्येति कुतो विभागस्यावगम इति वाच्यम् । तर्हि प्रकरणादेव नावगमे सति किंतु ह्यविभागमात्रस्यावगमे इत्यर्थः । सृष्टीति । सृष्टेः प्राक्कालो ययोर्विभागाविभागयोः तौ सृष्टिप्राक्कालो तयोर्दृष्टान्तोपभोक्तृतायाः । १० ब्र० सू० भा० 1141