अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1249, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५४ भावे चोपलब्धेः ॥ १५ ॥ भाव एव विद्यमान एव घटे घटोपलब्धिः । नाभावे । चकारान्मृत्सिकेत्येव श्रुतिः परिगृहीता । वाङ्मात्रेण चोपलम्भे मिथ्यैवात्र घटोऽप्यस्तीत्युक्ते उपलभ्येत । भाष्यप्रकाशः । किं तर्हि । अयमाक्षेपः । स चाधिष्ठानाद्याक्षिपन् भगवतस्तन्निरपेक्षत्वे पर्यवस्यति । आदि- शब्दाद् युक्तयः । परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते । साधनानां साधनत्वं यतः किं तस्य साधनैः ॥ इत्याद्यास्ताम्य इत्यर्थः । सोयं न सूत्रकारानुशयगोचरो हेतुरिति प्रतिभाति । यदि स्याच्- चाधिष्ठानशब्दादिभ्य इति वदेत् । तस्यागे बीजाभावात् । अथ व्यक्तस्तथासत्यधिष्ठानसापेक्षत्वात् साध्यासिद्धिः । किंचैवमनन्यत्वसाधनं भेदसिद्धान्तभञ्जकम् । अधिष्ठानानपेक्षावदुपादान- पेक्षाया अप्यसादेव वाक्यात् सिद्धेः । आरम्भणशब्दस्य कर्मार्थकल्युटापि सिद्धेः । व्युत्पत्त्यन्तरा- ङ्गीकारेऽनपेक्षत्वहानेश्च । अतस्तन्मतं चिन्त्यमेव । वाचारम्भणवाक्यं तु न विचारितम् । तत्र बीजं च न पश्यामः ॥ १४ ॥ भावे चोपलब्धेः ॥ १५ ॥ एवमेकेन श्रुतिविप्रतिषेधं परिहृत्य कार्यस्य कारणादन- न्यत्वे सत्त्वे च युक्तिमाह भावे चेति सूत्रेण । तद् व्याकुर्वन्ति भाव एवेत्यादि । तथा च रश्मिः । किं तर्हीति प्रश्नः । उत्तरयन्ति स अयमिति । किंस्विदित्यादेराक्षेपेपि प्रयोगात् । अधिष्ठानादीति अधिष्ठानं किंस्विदासीच्च किमपि कतमदारम्भणं किंस्विदासीन्न किमपीत्याक्षिपन् भगवतोऽधिष्ठानादि- निरपेक्षत्वे पर्यवस्यतीत्यर्थः । इत्याद्या इति । आद्यपदेन यदि कालो न स्यात्तर्हि 'कालोस्मि लोकक्षय- कृत्प्रवृद्धः' इति न वदेदिति । अनुशयेति । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वात्सूत्रका- रानुबन्धविषय इत्यर्थः । अथ व्यक्त इति । अधिष्ठानशब्दस्त्यक्तः सूत्रकृता । स्वतन्त्रेच्छत्वात् । नन्वार- म्भणशब्दोक्तश्रुतिनिष्ठसादिरधिष्ठानं तदारम्भणशब्दादि तेभ्यः पदेभ्य इति व्याख्यानं तत्त्यागे बीज- मिति चेत्तत्राहुः किं चैवमिति । वाक्यादेवेति । तथा च स्वयमुपादानमित्युपादानस्य कार्या- भेदाद्भेदसिद्धान्तभङ्गः । ननु नोपादानापेक्षारम्यतेऽसिद्धित्यारम्भणमिति व्युत्पत्तेरिति चेत्तत्राहुः आरम्भणेति । व्युत्पत्त्यन्तरमुक्तम् । चिन्त्यमेवेत्येवकारः प्रसिद्धश्रुतित्यागात् । न पश्याम इति तथा चारम्भणशब्दघटितत्वेन प्रसिद्धं वाक्यं विचारणीयमेवेति भावः ॥ १४ ॥ भावे चोपलब्धेः ॥ १५ ॥ श्रुतिविप्रतीति श्रुत्योः कारणान्यत्वकारणानन्यत्वप्रति- पादकयोः प्रतिज्ञादृष्टान्तप्रतिपादकयोर्विप्रतिषेधम् । एवेति कारणादन्याभावरूपानन्यत्वस्याभेद- रूपानन्यत्वस्य वा स्वसम्मतप्रतिपन्नानन्यत्वस्य व्यवच्छेदक एवकारः । यथा माध्वानां कारणान्त- रानपेक्षत्वरूपं तदनन्यत्वम् । भाव एवेत्यादीति । 'भाष्ये विद सत्तायां । दि. आत्म. अ. शानचि मुकि च रूपं विद्यमान इति । घटोपलब्धिरिति । अन्यथा खपुष्पोपलब्धिः स्यात् । विवर्तत्वे तु घटोपलम्भिर्न स्यात्तच्च योग्यानुपलब्धिरूपस्य सत्त्वाभावाभावादिरूपशक्यतावच्छेदक- 1143