अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1251, कुल 2600 में से
संदर्भ में पढ़ेंआसीत् । यदिदं किंच तत् सत्यमित्याचक्षते' इति श्रुतेः ॥ १६ ॥ इति द्वितीयाध्याये प्रथमपादे अष्टमं तदनन्यत्वाधिकरणम् ॥ ८ ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ (२-१-९) 'असद्वा इदमग्र आसीत्' इति श्रुत्या प्रागुत्पत्तेः कार्यस्यासत्त्वं बोध्यते भाष्यप्रकाशः। सदेवेत्यादि । श्रुतौ तु प्रपञ्चसत्त्वबोधकमिदं पदम् । सूत्रे चकारस्तु, 'विश्वं वै ब्रह्मत्तन्मात्रं संस्थितं विष्णुमायया । यथेदानीं तथा चाग्रे पश्चादप्येतदीदृशम्' इति । 'तदेतदक्षयं नित्यं जगन्मुनि- वराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्' इत्यादि श्रीमद्भागवतविष्णुपुराणादिवाक्य- संग्राहकः । एवं चास्मिन्नधिकरणे छान्दोग्यसत्प्रतिज्ञावाक्यस्य दृष्टान्तवाक्येन सह यो विरोधः स परिहृतः । कार्योपलब्ध्या कार्यसत्तासाधनेन तत्सत्तया कार्यस्य ब्रह्मत्वसाधनेन कार्यस्य कारणा- भिन्नत्वं दृढीकतम् ॥ १६ ॥ इति अष्टमं तदनन्यत्वाधिकरणम् ॥ ८ ॥ एवमनेनाधिकरणेन कार्यमिथ्यात्ववादं निराकृत्य असत्कार्यवादं निराकर्तुं 'असद्वा' इति श्रुतिविप्रतिषेधपरिहारायाधिकरणमारभत इत्याशयेन सूत्रं पठन्ति । असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ व्याकुर्वन्ति असद्वा रश्मिः। सत्त्वाच्चावरस्य ॥ १६ ॥ सिद्धमाहुः एवं चेति । द्वितीयसूत्रार्थमाहुः । कार्योप- लब्ध्येति । तृतीयसूत्रार्थमाहुः कार्यस्येति । शंकराचार्यास्तु उक्तार्थमाहुः । कारणसत्त्वं भाव- पदार्थमाहुर्द्वितीयसूत्रे । रामानुजानां प्रथमसूत्रार्थ उक्तः, द्वितीयस्तु कार्यसत्त्वमाहुः । तथा च भाष्यम् । कुण्डलादिकार्यसद्भावे च कारणभूतस्य हिरण्यस्योपलब्धेः । इदं कुण्डलं हिरण्यमिति हिरण्यत्वेन प्रत्यभिज्ञानादित्यर्थ इति । तृतीये कारणे कार्यसत्त्वमाहुः । अग्रे 'पटवच्च' इति सूत्रेऽधि- करणं समापयन्ति । माध्वानां पूर्वसूत्रार्थ उक्तः तत्रान्यनिरपेक्षकारणत्वमुक्तम् । तत् स्तम्भ- साधनभावे प्रमाणैकलभ्यमेवेति द्वितीयसूत्रार्थः । तृतीयस्तु 'अद्भ्यः संभूतः पृथिव्यै रसाच्च' इत्यादिना साधनान्तरप्रतीतेः कथमपलब्धिरित आह सत्त्वाच्चेति । अवरस्य तदधीनसाधनस्य सत्त्वादित्यर्थः । 'काल आसीत्पुरुष आसीत्परम आसीत्तददासीत्तदधीनमासीदिति काठ्ठायनश्रुतिः । भास्कराचार्यास्तु कारणभावे कार्यस्योपलब्धेः । तन्तुषु पटो मृत्पिण्डे घटो न देशान्तरे कालान्तरे चोपलभ्यत इति द्वितीयसूत्रे । तृतीयसूत्रेऽवरस्त्वावरकालीनस्य कार्यस्य कारणे सत्त्वा- दनन्यत्वं कथं गम्यते । सामानाधिकरण्यात् । तदेतेऽर्थाः स्वस्वमतानुसारेण द्वैतादिप्रतिपादकप्रति- पाद्याः, सूत्राणां सर्वतोमुखत्वात् । अत्र समन्वयो विषयः । तत्र मिथ्याकार्यकर्तृत्वसमन्वयः उत कारणाभिन्नकार्यसमन्वय इति संशयः । तत्र मिथ्याकार्यकर्तृत्वसमन्वयः । 'नेह नानास्ति किञ्चन' इति श्रुतेः । युक्तिश्च परस्परोपमर्दामकयोर्भेदामेदयोरेत्रासंभवादिति पूर्वपक्षेऽभिधीयते । एकविज्ञानेन सर्वविज्ञानोपक्रमबाधात् प्रकरणविरोधाच्च कारणाभिन्नकार्यसमन्वयः । एतावतापि न 'नेह नानास्ति' इति श्रुतिविरोधः । कारणभेदात्कार्यस्य । तेनैव मुख्यभावो ज्ञेयः ॥ १६ ॥ इति अष्टमं तदनन्यत्वाधिकरणम् ॥ ८ ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ असत्कार्येति । 1145