अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1253, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७९ 'तदात्मानꣳ स्वयमकुरुत' इति स्वस्यैव क्रियमाणत्वात् । इदमासीत्पदप्रयो- गाच्च ॥ १७ ॥ भाष्यप्रकाशः । स्फुटीकुर्वन्ति तदात्मानमित्यादि । तथा चासद्वेति वाक्यस्य शेषे आत्मपदात् तेनैव रूपेण सत्त्वम्, न तु व्याकृतेनेति बोध्यते । अतो नास्यासत्कार्यवादसाधकत्वम् । इदं चासदिति सूत्रस्य प्रस्थानान्तरीयव्याख्यानशेषत्वेन प्रागेव मया व्युत्पादितमिति नात्रोच्यते । एवं निवृत्ते तस्मिन् श्रुत्यभिप्रेतत्वाद्गौण्यपि न दोषाय । तथासति समाकर्षेऽपीदमेव बीजमतः पूर्वोक्तं सर्वं सुस्थम् । वस्तुतस्तु नात्र गौणी । सर्वेषां शब्दानां भगवद्वाचकतायाः स्वारसिकत्वस्य प्रागेव साधित- त्वात् । समाकर्षसूत्रस्य वादिबुद्ध्यनुसारित्वादिति । एवं चात्रेदंशब्दोऽपि न परिदृश्यमानत्व- रश्मिः । विचाराप्रसक्तेस्तादृशब्रह्मजिज्ञासायाः प्रतिज्ञातत्वात् । क्रियमाणत्वादित्यन्तभाष्यस्य भावमाहुः तथा- चेति । आत्मपदादिति नञ्घटितादात्मपदान्नात्मत्वेनापि तु तेनैवाव्याकृतत्वेनैव रूपेण सत्त्वं नञ्- घटितत्वादित्यर्थः । न तु व्याकृतेनेति । इदमुपलक्षणं सत्त्वब्रह्मवादीनामुक्तानाम् । असत्कार्येति । अयमर्थः असदेवेति वाक्यस्य शेषस्तत्सदासीदिति शंकरभाष्ये पूर्वव्याख्याने तत्तैत्तिरीयेपि 'तदात्मानꣳ स्वयम्' इत्यत्र न तु पूर्वव्याख्याने दोष उक्तः । भास्करभाष्ये तु पूर्वव्याख्यानमुक्तम् । तत्तु असदिति चेन्नेत्यनेनैव सिद्धम् । भाष्ययोरत्यन्तासत्कार्यवादो निराकृतः । परंतु 'सत इदमुत्थितं सदिति चेन्ननु तर्कहतम्' इत्यत्र 'ऐन्द्रजालिकपक्षेऽपि तत्कर्तृत्वं नटे यथा' इति निबन्धे चासत्कार्यमुक्तम् । तत्र भाष्य- द्वयोक्तातिक्रमे बीजाभावमाशङ्क्य स्वभाष्ये 'स्वस्यैव क्रियमाणत्वात्' इत्यनेनात्मनः कर्मकर्तृव्यपदेशः कृतः । तेनासत्कारणवादो निराकृतः । तेनाविर्भावतिरोभावावत्रत्यन्तासत्त्वाभावे तथा चोभयवाक्यशेषसंभ- वादनेन वाक्यशेषेण सत्कार्यवादः सिद्धः किं त्वव्याकृतात्मवादसाधकत्वम् । सत्त्वं ज्ञानमित्येकदेशः । ब्रह्माक्षरम् । कृष्णाजिनमाधिभौतिकम् । ब्रह्मेति बाह्यात्मा । अग्निराधिदैविक आत्मा इति । कृष्णाजिने सर्पी- कृते आध्यात्मिकः । सर्पे जाठराग्निसत्त्वात् । अत आत्मवादसाधकत्वं अव्याकृतत्वरूपेण । इदं चेति । प्रागेवेति तस्मिन्नेव सूत्रे । इदं चासत्पदशब्दयोरुभयत्र दर्शनेन रभसात् । छान्दोग्यतैत्तिरीयवाक्य- रूपविषयभेदात् । संज्ञाभेदात् । वाक्यशेषपदभावकृतनिर्णयभेदाद्विन्ने एवाधिकरणे इति । तस्मि- न्निति असद्व्यपदेशादिति चेदिति सौत्राक्षेपे । श्रुत्यभिप्रेतत्वादिति वाक्यशेषश्रुत्यभिप्रेतत्वात् । गौण्यपीति असत्पदस्य मृत्यौ शक्तिर्बृहदारण्यके । तैत्तिरीयेऽसद्ब्रह्मेति वेत्तरि शक्तिः । गीतायामश्रद्ध- या कृतयागादौ शक्तिः । तद्गुणयोगादव्याकृतात्मनि गौणी । इदमेवेति अनन्यत्वाक्षेपणम् । वाक्यशेष- श्रुत्यभिप्रेतत्वं वा । पूर्वोक्तमिति । सन्नेति यदुक्तं तन्नेत्यादिनोक्तम् । प्रागेवेति तल्लिङ्गाद्यधिकरणेषु । ननु कथमेवं यावता ह्यसत्पदमन्यवाचकं ब्रह्मबोधाय स्वार्थादाकृष्टं 'आकृष्यते स्वस्थानाच्च्याव्यते इत्याकर्षः' इति भाष्यात्तत्राहुः समाकर्षेति । वादिबुद्धीति । 'संभवति चैकवाक्यत्वेऽज्ञानान्निराकरणं चायुक्तम्' इति भाष्ये तथा सूचनात् । इदमासीदिति भाष्यं विवृण्वन्ति स्म एवं चात्रेति । अत्रेति श्रुतौ । नन्विदमस्तु प्रत्यक्षगे रूपमिति व्यावहारिकसत्त्वेऽपीदमित्युपपन्नम् । शंकरभाष्ये स्मृत्या- त्मकत्वं जगत इतीत्याशङ्क्याहुः न परीति । स्मृत्यात्मकज्ञानविषयत्वमात्रपरः । मात्रशब्देनात्मसृष्टि- व्यवच्छेदः । आन्तरालिकसृष्टिसंग्रहायोक्तम् । अन्यथा तु परिदृश्यमानत्वं नेति ब्रूयुः । ननु 'वीक्षितं विभ्रममिद'मित्यादिवाक्येभ्यो भ्रमविषयस्य शिष्यवैराग्याय वक्तव्यत्वात् कथमेवमिति चेत्तत्राहुः 1147