अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1289, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९ प्रवृत्तेश्च ॥ २ ॥ भुवनानि विचार्य जनान् विचारयति । सर्वस्य तत्परिणामे प्रवृत्तिर्नोपपद्यते भाष्यप्रकाशः । सांख्योक्तं पूर्वमनुमानं पक्षे साध्यशून्यमेव क्रियत इति बोधनं चकारेण क्रियते इत्यर्थः । एवं सत्प्रतिपक्षोऽर्थान्तरं बाधश्चेति दोषत्रयं दर्शितम् ॥ १ ॥ प्रवृत्तेश्च ॥ २ ॥ ननु पूर्वेहेतुनैव निरस्ते सांख्यमते हेत्वन्तरस्य किं प्रयोजनमत आहुः भुवनानीत्यादि । रचना द्विविधा, भुवनरचना जनरचना च, तत्र जनरचना शुक्रशोणितपरि- णामभूता, अतो रचनात्वहेतुकेऽनुमाने जनशरीररचनाया रचनाविषयत्वहेतुके च जनशरीर- स्याचेतनत्वहेतुके च शुक्रशोणितयोर्दृष्टान्तीकरणे तेषां साधारणत्वापत्त्या न तन्मतदूषणं न वा पूर्वोक्तन्यायावतार इति तत्समर्थनार्थं हेत्वन्तरेण तान् विचारयतीत्यर्थः । तद् व्युत्पा- दयन्ति सर्वस्येत्यादि । प्रवृत्तिर्हि प्रयत्नतत्पूर्विका क्रिया वा । तथा च सर्वस्य प्रकृतिपरिणामत्वे रश्मिः । व्यवस्थापितम् कार्य सदसद्वेति किमपि नोक्तम् । तत्तर्कहतं सत्कार्यमसत्सदसद्वा भवेत् । न तु सदेवेति । तदत्र वादस्य तस्य पौराणत्वेनात्र निरासः । स च पुराणो वादः 'सत इदमुत्थितं सदिति चेन्ननु तर्कहतम्' इत्यत्र सुबोधिन्यामुक्तः । एवं सत्प्रतिपक्ष इति । न च प्रतिपक्षस्या- नुमानस्य सत्प्रतिपक्षत्वेन तेन कथं पक्षे साध्यशून्यमेव क्रियत इति शङ्क्यम् । श्रुत्यनुकूलतर्कोत्थापनात् सत्त्वेनास्य सत्प्रतिपक्षत्वाभावात् ॥ १ ॥ प्रवृत्तेश्च ॥ २ ॥ जनशरीरेति । षष्ठ्यन्तान्येतानि पदानि दृष्टान्तीकरण इत्यनेनानु- षज्यन्ति । तेषां प्रतिपक्षानुमानानां साधारणत्वं साध्याभाववती जनशरीररचना सा साध्याभाववती 'योनेः शरीरम्' इति केवलाचेतनकर्तृकत्वात् । तत्र रचनात्वहेतोः सत्त्वात् । एवमचेतन- कर्तृकत्ववति जनशरीरे रचनाविषयत्वसत्त्वात् । एवं परतः कर्तृत्ववतोः शुक्रशोणितयोरचेतनत्व- हेतोः सत्त्वात् साध्याभाववद्वृत्तित्वेन हेतूनाम् । तन्मतदूषणं सत्प्रतिपक्षत्वरूपं तच्च । प्रतिपक्षाणां साधारणत्वेन तन्मतानुमानानां सत्प्रतिपक्षत्वाभावात् । न वेति रचितत्वपरिणतत्वयोरेकत्र जन- शरीरे दर्शनात्पूर्वोक्तहेत्वोर्भावाच्च तुन्दिलसुरतन्यायावतार इत्यर्थः । तत्समर्थेति प्रतिपक्षाणां सद्धेतुत्वं समर्थयितुम् । हेत्वन्तरेण सौत्रेण । तानिति रचितत्वादीन् हेतून् दृष्टान्तान्तरैर्वि- शेषणैश्च युक्तान् कर्तुं जननधर्मान्सशरीरान् जीवान् विचारयतीत्यर्थः । व्युत्पादयन्तीति जन- विचारेण दृष्टान्तेषु पूर्वं जनशरीररचनाजनशरीरशुक्रशोणितानामुक्तत्वेन हेतूनामविशेषितत्वेनाविचारित- त्वस्फूर्तेः । 'तर्कोऽकर्कशभावनासु सततं व्याजेन तन्द्राळवः'इति तार्किकोक्तेरत आवश्यकत्वाज्जनविचारे लोकन्यायेन व्युत्पादयन्ति । दृष्टान्तविशेषणत्वार्थं प्रयत्न इति द्वितीयोऽर्थस्तत्पूर्विका क्रिया वेति । तथा च भूरादिलोकरचना न केवलाचेतनकारणिका रचनात्वात् , इत्यत्र प्रवृत्तेरिति हेतुत्वेन न साधारण्यम् । यद्वा रचनात्वादित्येव हेतुः सा च बुद्धिपूर्विकेति प्रतिनियतदेशकालव्यवस्थापिकेति सांख्यबोधनायोक्तं क्रियाविशेषणम् । तत्परित्यागेन व्यासोक्तविशेषणं प्रवृत्तिरुक्ता प्रयत्नपूर्विका क्रिया रचनेति । सोयमर्थः सौत्रचकारेण बोधितः । तथा च प्रयत्नपूर्विका क्रिया, बुद्धिपूर्विका क्रियेति पूर्वसूत्रेणार्थो जातस्तत्र श्रीव्यासमतेन बुद्धिपूर्विकेतिविशेषणत्यागः, सौत्ररचनाशब्देन लक्षणे क्रियारूपविशेषणत्यागः । एवं च प्रयत्नपूर्विका क्रियेत्येवावशिष्टम् । तदुक्तं तत्पूर्विका क्रिया वेति । भाष्यं व्युत्पादयन्ति तथा चेति । १ ब्र० सू० २० 1181