अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 129, कुल 2600 में से
संदर्भ में पढ़ें४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ संदेहवारकं शास्त्रं बुद्धिदोषात् तदुद्भवः । विरुद्धशास्त्रसंभेदाद्नैवाशक्यनिश्चयः ॥ तस्मात् सूत्रानुसारेण कर्तव्यः सर्वनिर्णयः । अन्यथा भ्रश्यते स्वार्थान्मध्यमश्च तथाविधः ॥ परंपरया पाठवदर्थस्यापि गुरुमुखादेव श्रवणेऽपि मन्दमध्यमयोः संदेहो भवेत् समानधर्मदर्शनात् पदादिपाठवत् । तत्र यथा लक्षणानामुपयोग एवमेव मीमांसाया अपि । भाष्यप्रकाशः । संदेह एव कथमित्यत आहुः बुद्धीत्यादि । तन्निवृत्तिर्व्याकरणादिभिरेव भविष्यतीत्यत आहुः विरुद्धेति । सर्वनिर्णय इति पूर्वोत्तरकाण्डार्थनिर्णयः । कथमिदमित्यपेक्षायां व्याचक्षते परं- परयेत्यादि । समानधर्मदर्शनादिति अर्थे समानधर्मदर्शनात् । यथा 'अक्ताः शर्करा उप- दधाति' इत्यत्राञ्