अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1295, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ की सामग्री का शुद्ध देवनागरी यूनिकोड में पंक्तिशः (line-by-line) लिप्यन्तरण दिया गया है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५ इति चेत् । न । तत्रापि दोहनाधिश्रयणे, मेघानां चेतनानामेव सत्त्वात् । भाष्यप्रकाशः। चेन्न । कुतः तत्रापि तस्मिन् दृष्टान्तद्वयेऽपि दोहनाधिश्रयणयोश्चेतनकर्तृकयोरेव प्रयोजकतया सत्त्वात्, नदीप्रस्रवणेऽपि चेतनानां मेघानां प्रयोजकानां सत्त्वात् । तथा च दृष्टान्तद्वयेऽपि चेतनप्रयुक्तत्वस्य विद्यमानत्वेन हेतोः सपक्षराहित्येन व्याप्तिग्रहाभावाच्चानुमानमित्यर्थः । ननु यथा क्षीरमचेतनं स्वत एव वत्सविमृद्धये प्रवर्तते । यथा वा नद्यादिजलं स्वभावत एव लोको- पकाराय स्यन्दत एवं प्रधानमपि स्वभावत एव पुरुषार्थसिद्धये प्रवर्तेत इत्याशङ्कायामुभयवादिप्रसिद्धे रश्मिः। विवृण्वन्ति स्म नेति । तत्रापीति सौत्रौ व्याख्येयौ इमौ शब्दौ । अत्र तत्रापि दोहनाधि- श्रयणयोरपि । दोहनाधिश्रयण इत्यत्र सुपांसुं सर्वादेशः, अतो गुणे । चेतनानामिति । 'इत्थं मघवताङ्गसा मेघा निर्मुक्तबन्धनाः' इति वाक्यात् । अत एव गुर्जरदेशे तत्तत्कालावच्छेदेनैव समभूमौ प्रवृत्तिनिवृत्ती अप्सु दृश्येते । एवेति अस्तु दोहने पयसो विचित्रफेनरचनाकर्तृत्वं यत्र स्वयं प्रस्रवणं तत्र फेनरचना चेतनदोग्धारमन्तरेणाऽपि भवतीति चेतनकर्तृकदोहनं फेनरचनां प्रत्य- न्यथासिद्धं दोहनाधिश्रयणे तु प्रसिद्धमन्यथासिद्धत्वमित्येवकारः । तेन दोहनाधिश्रयण इति समाहारद्वन्द्वोऽपि । न चाधिश्रयण इत्येवाऽस्तु दोहनेत्यधिकमिति शङ्क्यम् । अनेकस्थलप्रदर्श- नार्थत्वात् । समाहारस्तु समाहारेण प्रदर्शनार्थः । ननु मेघानां जलरूपत्वेन पयसो द्रव्यान्तरत्वेन तत्रान्तर्यामिणः सत्त्वं न तु मेघानामिति चेन्न । सांसिद्धिकद्रवत्वसत्त्वेन किं पुनर्जललक्षणस- त्त्वेन द्रव्यान्तरत्वाभावात् । जलस्य लक्षणं त्वभास्वरशुक्तेतररूपसमानाधिकरणरूपवद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम्, तदत्रापि । किंच प्रस्थानरत्नाकरे सामान्यलक्षणमुक्तं जलस्य 'क्लेद- नपिण्डनतृप्तिप्रीणनाप्यायनप्रेरणतापापनोदनमृदुस्त्वारुह्याह्लाद्यकार्यकत्वं सामान्यलक्षणमिति । तद्व- प्यत्रेति घृततैलादौ यत्क्लेदकत्वं संग्राहकत्वं च दृश्यते सोऽपि जलधर्म एव । वह्न्यादिसंसर्गेण परमभिव्यज्यते । इत्यत्रापि प्रस्थानरत्नाकरे, आदिपदेन पयः । एवं च तत्रापि यः क्लेदकत्वादिर्र्दृश्यते सोऽपि जलधर्म एवेति । अम्बुदृष्टान्तविषये तु नोक्तं तस्य प्रवृत्तेः केवलाचेतनधर्मत्वसाधकत्वेन विचित्ररचनापक्षकेनुमाने केवलाचेतनकर्तृकत्वसाधकत्वात् । इत्येवं भाष्यव्याख्यानं यद्यपि तथापि वादिनं प्रति लोकन्यायेन वक्तव्यमिति भाष्यादाहुः तत्रापि दृष्टान्तद्वयेपीत्यादि नदी- प्रस्रवणेपीत्यादि च । अयं शेषः पूरितः । तयैव सिद्धमाहुः तथा चेति । प्रयुक्तत्वस्येति चेत- नेन प्रकर्षेण युक्तत्वस्य । हेतोरिति रचनात्वस्य, व्याप्तीत्यनेनान्वेति । हेतोः सम्बन्धिनी या व्याप्ति- राधाराधेयभावसंसर्गः तस्याः ग्रहस्तस्याभावादित्येकदेशान्वयः । व्याप्तिग्रहाभावे हेतुः सपक्षराहि- त्येनेति । निश्चितसाध्यवान्सपक्षः । पक्षभिन्नत्वे सति निश्चितसाध्यवत्त्वं दृष्टान्तत्वम् । निश्चितसाध्यवह- भावेन दुह्यमानपयःफेनरचनायामपि केवलाचेतनकर्तृकत्वरूपसाध्याभावात् । तथास्मदीयरचनात्व- हेतुर्न विरुद्ध इति भावः । नानुमानमिति व्याप्तिज्ञानं परामर्शो वा । इत्यर्थ इति । एवं प्रवृत्तित्वलिङ्गमप्यसाधारणम् । साध्याभाववतीषु नद्यादिप्रवृत्तिषु प्रवृत्तित्वस्य साध्यसामानाधिकर- ण्यात् । प्रवर्तते इति वत्सपीतं प्रवर्तते । लोकोपकारायेति तदुक्तम्, यमुनोत्पत्तौ पद्मपुराणे 'रसो यः परमाधारः सच्चिदानन्दलक्षणः । प्रश्वेत्युपनिषद्गीतः स एव यमुना स्वयम् । पावनायास्य जगतः सरिद्रूपा ससार ह' इति । प्रवर्तेत इति जगज्जननप्रवृत्तिं कुरुते । उभयेति लोकरीत्या प्रतिवादी 1187