अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1314, कुल 2600 में से
संदर्भ में पढ़ें३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ३ सू० ११ भाष्यप्रकाशः। माणुत्वं त्वनारम्भकम् । द्वित्वसंख्या तु माहेश्वर्यापेक्षाबुद्ध्या जन्यते । तथा त्रिभि- र्घ्यणुकैस्त्र्यणुकमारभ्यते । व्यणुकगतया बहुत्वसंख्यया त्र्यणुके महत्त्वं दीर्घत्वं च परिमाणा- न्तरमारभ्यते । व्यणुकगते अणुत्वह्रस्वत्वे त्वनारम्भके । तथा द्वाभ्यां तु व्यणुकाभ्यामपि न द्रव्यमारभ्यते । व्यणुके बहुत्वमहत्त्वप्रचयविशेषाभावेन व्यणुकजनितकार्ये महत्त्वात्तारम्भे तस्य कार्यस्य व्यणुकतुल्यतायां तद्वैयर्थ्यप्रसङ्गात् । किंच । विश्वनिर्माणस्य जीवाद्दष्टजन्यतया तद्भोगार्थत्वाद् व्यणुकभोगस्य कारणम्यणुकेनैव सिद्धेः कृतं तत्कार्येण व्यणुकान्तरेणेति । अत आरम्भसार्थक्याय बहुभिरेव व्यणुकैस्त्र्यणुकचतुरणुकादीनि भोगभेदायारभ्यन्ते । एवं क्रमेण वायवीयपरमाणुसंयोगेभ्य उत्पन्नो महान् वायुर्नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मि- न्नेवाप्येम्यस्तेभ्यस्तथैवोत्पन्नः सलिलनिधिः पोषूयमानस्तिष्ठति । तदनन्तरं तथैवोत्पन्ना पृथिवी तत्रैव संहतावतिष्ठते । तदनन्तरं तस्मिन्नेव महोदधौ तथैवोत्पन्नस्तेजोरा शिर्देदीप्यमानस्तिष्ठती- त्यादिः प्रक्रिया काणभुजेभ्यः सप्तमाध्यायादिसूत्रेभ्यः सिद्धा तद्भाष्यादिभ्योवगम्यते । रश्मिः। तदनारम्भकं व्यणुकपरिमाणस्यानुत्कृष्टत्वात् । परिमाणस्य खसजातीयोत्कृष्टपरिमाणजनकत्वात् । संख्यायाः परमाणुगताया नित्यत्वमाशङ्क्याह द्वित्वेति । अपेक्षेति प्रथममयमेकोयमेक इत्यपेक्षाबुद्धिः। ततो द्वित्वोत्पत्तिः । ततो विशेषणज्ञानं द्वित्वनिर्विकल्पकत्मकम् । ततो द्वित्वविशिष्टप्रत्यक्षमपेक्षाबुद्धि- नाशश्च ततो द्वित्वनाश इति प्रक्रिया। अनारम्भके इति । अणुकस्याप्रत्यक्षतापादकत्वादिति भावः । तेन द्वयोः परमाण्वोर्द्वयोर्ह्रस्वयोर्मिलने न परमाणुबुद्धिः । घटपटौ न घट इत्येकदेशप्रतियोगिका- भावबुद्धेः । तथा च परिमाणं परिमाणारम्भकं न संख्येति यद्यपि तथापि तादृशपरिमाणस्यापि स्वसजाती- योत्कृष्टपरिमाणजनकत्वात्रसरेणौ विवक्षितपरिमाणजनकत्वादपास्तं तदपि । अपसिद्धान्त................ स्म तथा द्वाभ्यामिति । बहुत्वेत्यादि । बहुत्वं च महत्त्वं च प्रचयविशेषश्च बहुत्वमहत्त्वप्रचय- विशेषास्तेषामभावेन । बहुत्वाभावः पक्षे साध्याभावरूपषाधसा............ष्टत्वादितिवद्देवद्देवभाव- साधकश्च । महत्त्वाभावो व्यणुकजनितकार्ये व्यणुकतुल्यतासंपादकः प्रचयविशेषाभावोपि । महत्त्वेति । न च संख्या द्वित्वरूपा परि.........केति वाच्यम् । व्यणुकतुल्यतापत्तेः । अतः परिमाणं त्रिभिरारभ्यते । तत्र संख्यया परिमाणारम्भ उक्तः । परिमाणजन्यं तु घटादिपरिमाणं कपालपरिमाण- जन्यम् । प्रचयस्तु शिथिलसंयोगस्तज्जन्यं परिमाणं तूलकादाविति । तथा च महत्त्वात्तारम्भ इत्यर्थः । तद्वैयर्थ्येति व्यणुकाभ्यां जनितस्य वैयर्थ्येन तदारम्भवैयर्थ्यप्रसङ्गात् । व्यणुकेनाप्यसिद्धत्वं प्रसञ्जयति स्म किंचेति । जीवाद्दष्टस्य कारणत्वं निमित्तत्वेन । दोधूयमानादयो यङन्तक्रियापदैर्विगृद्ध शानजन्तास्तद्भाष्यादिव्याख्यानात्समर्थनीयाः । तस्मिन्निति नभसि । आप्येभ्यो जीवनीयेभ्यः । तथैवेति संयोगप्रकारेणैव । एवमग्रेऽपि । तथैवेति पार्थिवेभ्यः परमाणुभ्यः, इत्येवं पूर्वोक्तप्रकारेण । तथैवेति पृथिवीत्वेनैव । महोदधाविति । श्रुतिश्च 'अङ्गः प्रातरुदेति सायमपः प्रविशति' इत्येव- माकारा । तथैवेति तैजसेभ्यः परमाणुभ्यः संयोगप्रकारेण । सप्तमेति तानि सूत्राणि शंकराचार्यभाष्ये परिमाणान्तरस्यान्येहेतुत्वाम्युपगमात् 'कारणबहुत्वाच्च कारणमहत्त्वात् प्रचयविशेषाच्च महत्' तद्विपरीत- मणुत्वम् 'एतेन दीर्घत्व ह्रस्वत्वे व्याख्याते इति । अवगम्यते इति 'तस्माद्वा एतस्मात्' इति श्रुतिस्तु नैवा- मुपयोगिनी । एतावता तन्नेत्यारभ्येत्यर्थ इत्यन्तं भाष्यं विवृतम् । तद्भाष्यमाभासमुखेन योजनीयमित्या- 1206