अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1320, कुल 2600 में से
संदर्भ में पढ़ें४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ३ सू० १२ भावाच्च विभागस्याशक्यत्वाच्च । अतो द्व्यणुकस्याभावः ॥ १२ ॥ भाष्यप्रकाशः। 'भावात् । चोऽप्यर्थे । किंच । पार्थिवद्व्यणुकाङ्गीकारः सुतरामसङ्गतः । पृथिवीपरमाणुषु स्नेहाभावेनेतरेतरासंग्रहाद्वयव्युत्पत्तेरशक्यवचनत्वात् । संग्राहकत्वेनाप्यणुप्रवेशाङ्गीकारे तु त्र्यणुकचतुरणुकताया एवापत्तेरिति । एवं च ह्रस्वपरिमण्डलाभ्यां परमाणुभ्यां जायमानं द्व्यणुकं महत् दीर्घवद् वा स्यात् । उभयथापि न, तज्जनकं कर्मापि न । अतः स्वरूपविरोधा- द्धेत्वभावाच्च तद्भावो द्व्यणुकस्याभाव इति सूत्रयोरन्वयः । तथा च द्व्यणुकाभावात् परमाणुकारणवादोऽसङ्गत इत्यर्थः । ननु भवत्वेवं, तथापि, 'अणुर्द्वौ परमाणू स्यात् त्रसरेणु- स्त्रयः स्मृतः' इति श्रीभागवते संज्ञाभेदेन द्व्यणुकस्याङ्गीकृतत्वात् कथं तद्विरोधः साधनीय इति चेत् उच्यते । तत्र हि 'चरमः सद्विशेषाणामनेकोऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः' इति परमाणुलक्षणे सदा असंयुत इत्यनेन तत्संयोगानङ्गीकारात् संयोगजन्यद्व्यणुकाभावेऽपि ततः स्थूलभूतत्र्यणुकत्रसरेण्वादिविभागजन्यद्व्यणुकप्रतिषेधाभावेनावि- रोधात् । भौते पौराणे च दर्शने स्थूलादेव कारणात् सूक्ष्मस्य कार्यस्य विभागेनादावुत्पत्तेः । रश्मिः। 'भावादिति । तथा च विभागस्याशक्यत्वाद्विशेषाभावादित्यपि भाष्यार्थः । भाष्ये चकारोऽप्यर्थ इति पदार्थसंभावनार्थकत्वात् । चोऽप्यर्थ इति पूर्ववत् । अतो द्व्यणुकस्येत्यादिभाष्ये विशेषमाहुः किंचेति । स्नेहेति अस्य जलमात्रवृत्तित्वेन तथा । नैमित्तिकं स्नेहं संगृह्यैव परमाणुः परमाणुं प्रतीत्यपि न । द्व्यणुके स्नेहांशधिक्यात्त्र्यणुकतापत्तिः स्नेहाधिक्ये चतुरणुकतापत्तिरित्याहुः संग्राहकत्व इति । नन्वणुप्रवेशो जलपरमाणुप्रवेशो वा वाच्यः स चासंगतः । विशेषरूपपदार्थै- स्तदसंभवादिति चेन्न । त्वया विशेषपदार्थखण्डनात् । जलपरमाणुप्रवेशे द्व्यणुकातिरिक्तकार्यभोगा- भावात्त्र्यणुकादिरुक्तः । वस्तुतस्त्वग्रिमसूत्रेणैतस्यान्वयायुक्तत्वात्प्राहुः एवं चेति । स्वरूपेत्यादि । महद्दीर्घपरिमाणापत्या द्व्यणुकस्वरूपविरोधाद्धेतोरसमवायिकारणस्य संयोगाभावाच्चेत्यर्थः । संज्ञेति अणुसंज्ञाया भेदेन । चरम इति । वाक्यार्थस्तु स परमाणुर्विज्ञेयो यः सद्विशेषाणां चरमः सतो घटादेर्विशेषाणामवयवानां मध्ये चरमो यस्य पुनरवयवो नास्ति, अनेकः समुदायावस्थां न प्राप्तः । असंयुतः कार्यावस्थां न प्राप्तः सदा । द्व्यणुकस्य त्र्यणुकादुत्पत्तिरिति वक्ष्यते । ऐक्यभ्रमश्च नृणां यतः परमाणुभिर्भवति नृणां जीवानां यैः परमाणुभिः कृत्वात्मना सह देहस्यैक्यभ्रमो भवति देहाध्यासात्मकः। ऐक्यभ्रमहेतवस्तु परमाणव एव । 'स्त्रियाः प्रविष्ट उदरे पुंसो रेतःकणाश्रयः' इति वाक्याद्यदा जीवो गर्भे प्रविशति तदान्यदा वा स्वस्य पित्रादेश्च वा धर्माधर्माभ्यां संस्कृतास्ते परमाणवोऽपि तत्राहारादिभिः प्रविश्य जीवस्वरूपेण संबध्यन्ते रजस्सलमिव तं कुर्वन्ति तदा जीवा देहमापद्यन्ते देहमध्यस्यन्ति । अत्र भ्रमजनको नेन्द्रियदोषः, सर्वेषामेव भ्रमात् किंतु विषयगतः परमाणुसंबन्धः, अतः सर्वेषां भ्रम उपपद्यते । संबन्धापगमे तु विषयदोषाभावान्न भ्रमो विद्या- वताम् । यदपि प्रस्थानरत्नाकरे सर्वत्रेन्द्रियदोषोऽभ्युपगतः स चैतदतिरिक्तविषयः । तत इति संज्ञाभेदात् । स्थूलभूतेति त्र्यणुकमेव त्रसरेणुः तदादीत्यादिः । अविरोधादिति । तथा च त्रसरेणोः समवायी विभागोऽसमवायी तज्जनकं कालादिकं निमित्तं द्व्यणुकं कार्यमिति फलितम् । १. त्रयस्तु चे इति पाठः । 1212