अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 133, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। तत्सम्बन्धी सपरिकरस्तज्ज्ञापको वेदानुकूलो वेदवाक्यानां विरोधपरिहारादिना तेष्वपचारादिदोष- निवर्तको विचारो मीमांसारूप इति हेतोः । अत्र हि सर्ववेदार्थत्वेन ब्रह्म जिज्ञास्यम्, अन्यथा वेदवेदान्तयोरैकशास्त्र्यं न स्यात् । तदभावे च जैमिन्याद्युक्तदिशा मुमुक्षुप्रवृत्तिप्रतिघाते शास्त्रवैय- र्थ्यमापद्येत । विचारश्च यदि वेदानुकूल्यं न स्यात् तदाप्यास्तिका न प्रवर्तेरन् । अत आवश्य- कत्वात् स्वातन्त्र्येऽपि विरोधाभावादानुकूल्येन तज्जनितज्ञानस्य ब्रह्मज्ञानरूपत्वात् प्रतिविधानमेव युक्तमित्यर्थः । अयं प्रकारो माध्वानांमपि संमतः तत्त्वबोधकस्कान्दवचनोपन्यासादवगन्तव्यः । अध्याहारपक्षेऽप्येवं वक्तुं शक्यत्वात् । तत्सायासं मन्यमानोऽनुयुङ्क्ते किमत्र युक्तमिति । स्वतन्त्र- रश्मिः। मिति । सर्ववेदार्थत्वेनेति च । मुख्यपूर्वपक्षोक्तं मुख्यपूर्वपक्ष्यर्थत्वेनेति चार्थः । सपरिकरेति विशेषणं निःसंबोधमोक्षनिरासाय आत्मनो मोक्षत्वात् । विरोधनिरकरणादिरपि परिकरः । वेदान्त- रूपपदं व्याचख्युः वेदवाक्यानामिति । आदिशब्देन साधनं मुख्यत्वादिकं फलं च संबो- धत्वं चेति गृह्यते । तेन विरोधपरिहारोक्तोध्यायद्वयार्थः । आदिशब्दोक्तोध्यायद्वयार्थश्चेत्यध्याय- चतुष्टयार्थः । तेष्वित्यध्यायेषु चतुर्षु । आदिशब्देनाकाङ्क्षायोग्यतासंनिधयः । इति हेतोरिति । न तदादरमेव युक्तं, अध्याहृत्याध्याहारशेषनिवर्तनात् । दोषनिवर्तनं ततोपि अध्याहारदर्शना- त्सर्वत्र । सर्ववेदेति । ननु वेदार्थत्वेनापि विद्यात्मत्वेन पूर्वस्य पुराणेपि सत्त्वात् द्वितीयस्यापि निरीश्वरमीमांसाविषयत्वात् । अत्र सूत्रे ब्रह्मपदेन वेदोक्तवेदार्थत्वेन ब्रह्म जिज्ञास्यम्, वेदार्थो ब्रह्म इति प्रतीतेः । यथा घटः पृथिवीत्वेन घटप्रतीतेः । तथा च वेदार्थो ब्रह्म तस्स न तु पुराणाद्यर्थः शुद्ध्यर्थब्रह्मणो वेदानुकूलविचार इति भाष्यार्थः । ब्रह्मशब्देन वेदमात्राग्रहणे युक्तिमाहुः अन्य- थेति । ऐकशास्त्र्यमिति । तच्चाग्रे भाष्ये वक्ष्यते । श्रुतयोरप्युक्तम् । 'यदेव विद्यया करोति' इति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति च । वृत्तिकृद्वैपायनोप्याह 'संहतमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेन' । जैमिन्याद्युक्तदिशेति । यथाहूः 'चो