अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1342, कुल 2600 में से
संदर्भ में पढ़ें६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ४ सू० १९ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥ सर्वक्षणिकत्वेऽपि पूर्वपूर्वस्योत्तरोत्तरप्रत्ययविषयत्वात् कारणत्वात् संततेरेव भाष्यप्रकाशः। भास्कराचार्यास्तु—परमाण्वादीनामचेतनत्वात् क्षणिकत्वान्नित्यस्य भोक्तुः प्रशासितु- र्बेश्वरस्य संहन्तुरनभ्युपगमान्न स्थूला पृथिवी संभवेत् । परमाणवश्चातीन्द्रियाः । न तैः स्थूल- व्यवहारः । येन च स्थूलव्यवहारः स तु नास्तीति लुप्यते लोकयात्रेत्याहुः । एवमेव शांकरा अपि । एतदेव किंचिद्वैलक्षण्येनान्येऽप्याहुः ॥ १८ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥१९॥ एवं क्षणिकत्वदूषणे समाहिते सूत्रांशेनाशङ्काशान्तरेण परिहरतीत्याहुः सर्वैत्यादि । अप्राप्तिरिति पूर्वसूत्रादनुवर्तत इति बोध्यम् । प्रत्ययः कारणसमवायः । इतरेतरं प्रत्यया इतरेतरप्रत्ययाः तेषां भावस्तत्त्वं तस्मात् ल्यब्लोपे पञ्चमी । तत् प्राप्य वा । अयमर्थः । अविद्यादिभ्यो जन्मादयो जन्मादि- भ्यश्चाविद्यादय इति चक्रवत्परिवृत्तौ सर्वक्षणिकत्वेऽपि न कारणव्यक्तिं प्रति कार्यव्यक्तेः रश्मिः। नष्टस्पृष्टश्च नष्टः तथा वेदिता विदितश्च नष्टः कथं चान्येन स्पृष्टमन्यो वेदयते कथं चान्येन विदितमर्थमन्य उपादत्ते । संतानानामेकत्वेऽपि संतानिभ्यस्तेषां वस्तुतो वस्त्वन्तरत्वानभ्युपगमाच्च तन्निबन्धनं व्यवहारादिकमुपपद्यत' इति । सौत्रान्तिकमतं दूषयन्ति परमाण्वादीनामिति । न स्थूलेति ईश्वरमन्तरेणेति ज्ञेयम् । येनेति अवयविना । नास्तीति समुदायेनान्यथासिद्ध्या नास्तीत्यर्थः । अन्य इति माध्वा अन्ये । वैलक्षण्यं स्वेतत् समुदायासैकहेतुत्वं न युज्यते, अन्यतरादर्शनप्रसङ्गात् । उभयहेतुकेप्यन्योन्याश्रयत्वात्स्थूलपृथिव्यादेरप्राप्तिः । स्वभाववादे तु सर्वदा समुदायत्वं स्यादिति भाष्येऽन्योन्याश्रयः । स च पृथिव्यादिभूतसमुदाये सति रूपादिस्कन्धसमुदाय- स्तस्मिन्सति च तत्समुदाय इति । यत्तु सविकल्पकं भ्रम इति तन्न । सामान्यादेः सत्त्वेन तद्विषयकज्ञानस्य भ्रमत्वायोगात् ॥ १८ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥ परिहरतीति सूत्रकारः । सर्वैत्यादीति । सर्वक्षणिकत्व इति भाष्ये पाठं मत्वोक्तम् । कारणेति इति नास्तिकैरुच्यते । इण्धातोर्मर्त्यर्यावाञ्चप्रत्ययमादायेत्यत्रापि प्रत्ययः कारणसमवाय इति व्याख्येय- मित्यर्थः । अयधातोरेरिति विशेषः पूर्वस्मात् । प्रत्ययत्वं तु हेतुं हेतुं प्रत्ययन्ते गच्छन्तीति व्युत्पत्त्येत्यर्थ इति द्वितीयसूत्रे स्फुटम् । इतरेतरमिति इतरदिति विग्रहे कर्मव्यतिहारसूत्रे द्वित्वे समासवद्भावे च सुब्लुकि इतरेतरपदात्सुः । अददादेशस्तु न 'स्त्रीनपुंसकयोश्चोत्तरपदस्याया विभक्तेराम्भावो वाच्यः' इति वार्तिकादाम् । न च सामान्ये नपुंसकत्वेऽपि बहुवचनं स्यादिति वाच्यम् । आमः सर्वविभक्त्या- देशत्वात् इतरे इति विग्रहोऽपि संभवी । तदेतरेतरे इति प्रत्यया इति विग्रहः । तस्मादिति । तथा चेतरेतरकारणसमवायत्वादित्यर्थो जातः । अयं हेतुः सर्वक्षणिकत्वेन जीवस्य संसाराप्राप्त्याशङ्का सा नेत्यत्र भवति । पूर्वस्य कारणत्वमुत्तरस्य क्रियाविषयत्वं प्रायेव भवति । इदमप्युत्तरसूत्रे 'प्रतीत्यसमु- त्पादलक्षणमुक्तम्' इत्यादिना स्फुटीष्यति तदाहुः ल्यब्लोप इति । 'ल्यब्लोपे कर्मण्यधिकरणे च' इति पञ्चमी । तत्प्राप्येति इतरेतरप्रत्ययत्वं प्राप्य । सोयं प्रत्ययशब्दस्य प्रत्ययविषये लक्षणार्थो न तु यथाश्रुतमित्याशयेनाहुः अयमर्थ इति । भाष्यं विवृण्वन्ति स्म अविद्यादिभ्य इति । चक्रव- दिति कुलालचक्रवत् । कारणव्यक्तिमिति विज्ञानव्यक्तिर्जडव्यक्तिश्च । एवं कार्यव्यक्तिरपि ज्ञेया । १२२८