अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1360, कुल 2600 में से
संदर्भ में पढ़ें८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ४ सू० २५ अनुस्मृतेश्च ॥ २५ ॥ सर्वोऽपि क्षणिकवादो बाधितः । स एवायं पदार्थ इत्यनुस्मरणात् । अनु- भवस्मरणयोरेकाश्रयत्वमेकविषयत्वं च ॥ २५ ॥ भाष्यप्रकाशः। रूपिद्रव्यसमवायित्वात् त्रिवृत्करणेन रूपसंबंधाच्च प्रत्यक्षमित्याहुः । तत्राप्यनुमेयत्वखण्डन- मात्रं युक्तम् । शंकराचार्या भास्कराचार्याश्चाकाशसत्त्वे बुद्धवाक्यसंमतिमप्याहुः 'पृथिवी भगवन् किं निःसंश्रया' इत्येवं प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्तः 'वायुः किं निःसंश्रयः' इत्यस्य प्रश्नस्य प्रतिवचनं 'वायुराकाशसंश्रयः' इति बुद्धेनोक्तम् । तथा, 'आकाशस्य स्थितिर्यावद् यावच्च जगतः स्थितिः । तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः' इति च बुद्धेनोक्तमिति । तथा चाकाशस्यावस्तुत्वे तदसङ्गतं स्यादिति ॥ २४ ॥ अनुस्मृतेश्च ॥ २५ ॥ एवं क्षणिकवादं विशेषतो निराकृत्येदानीं सङ्क्षेपेण निरा- करोतीत्याशयेनाहुः सर्व इत्यादि । अयमर्थः । क्षणिकवादी हि सर्वस्य क्षणिकत्वं मन्यमानो ऽनुभवितुरनुभूतिविषयस्य च सदृशसंतानेन प्रत्यभिज्ञानमुपपादयति । तदसङ्गतम् । प्रत्यभि- ज्ञाने हि यः पूर्वं दृष्टः स एवाऽयं पदार्थ इति, योऽहं पूर्वमद्राक्षं स एवाहमिदानीं पश्यामी- त्याकारः । तत्र च, स इत्यनेन पूर्वकालवर्तिनोऽयमहदित्यनेनोत्तरकालवर्तिनोऽनुभूति- विषयस्यानुभवितुश्चैक्यस्य परामृश्यमानतया पूर्वापरकालवर्तिन एकस्य सिद्धत्वेन क्षणिक- संतानस्य वक्तुमशक्यत्वात् । नच तत्र संताने स इति पूर्वकालवर्तित्वाभिमानात् सर्वमुपपद्यत इति वाच्यम् । अनुभवस्मरणयोरेकाश्रयत्वैकविषयत्वनैयत्यात् संतानेन च पूर्वकालस्याननुभूत- रश्मिः। संबन्धो वृत्तिनियामकः स्यात् स तु नास्तीति न तसाकाशस्य शब्दानुमेयत्वमप्रयोजकत्वा- दित्यर्थः । रूपीति पञ्चीकरणेन रूपिद्रव्यावयवसंबन्धित्वेनावयवाकाशयोस्तादात्म्यं मन्यन्त इति ज्ञायते । रूपाण्याकाशगुणत्वाद् द्रव्याश्रितानि तादृशद्रव्यवायुसमवायित्वादिति वा । तत्रापीति एवं मतेऽपि । अनुमेयत्वेऽति । न तु रूपिद्रव्यसमवायित्वमण्डनम् । 'आकाशाद्वायुः' इति श्रुतेः । त्रिवृत्करणाभावे व्यवस्थापनेन रूपसंबन्धाभावात् । प्रत्यक्षत्वमपि न रूपसंबन्धेन किंतु रूपत्वेन । नीरूपो नील इत्याकाश्यव्यवस्थापनात् । अप्याहुरिति अपिशब्देन श्रुतिसंमतिः । प्रश्नमतीति एवमादीनां प्रश्नप्रतिवचनेन प्रवाहे । ममेति बुद्धस्य । तदित्युक्तवाक्यद्वयम् । माध्वास्तु दीपादिक्षु विशेषदर्शनात् क्षणिकत्वेनान्यत्र क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्श- नादन्यत्रापि तदनुमीयत इत्याहुः ॥ २४ ॥ अनुस्मृतेश्च ॥ २५ ॥ अनुभवितुरिति विज्ञानस्कन्धस्य । अनुभूतीति रूपस्क- न्धादेः । प्रत्यभिज्ञानम् तत्तेदंताप्रकारकं ज्ञानम् । एवं वादस्वरूपमुक्त्वा बाधितं प्रतीदं भाष्यं विवृण्वन्ति स तद्वसमिति । सूत्रार्थभूतं स एवेत्यादिभाष्यं विवृण्वन्ति स प्रत्यभिज्ञान इति । पूर्वकालेति । घटादेरात्मनश्च तदुभयत्रेनानुभूतिविषयस्यानुभवितुश्चेति । अनुभवेत्यादि- भाष्यं विवरीतुमाशङ्कामाहुः न च तत्रेति । सर्वमिति यद्यत्प्रत्यभिज्ञोपयोगि तत्सर्वम् । अनु- भवेत्यादिभाष्यं विवृण्वन्ति अनुभवेति । एकाश्रयत्वं च तादात्म्येन बोध्यम् । एकं च मन 1252