अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1368, कुल 2600 में से
संदर्भ में पढ़ें८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० २ पा ० २ अ ० ५ सू ० २८ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ यद्यभावाद् भावोत्पत्तिरङ्गीक्रियते तथा सत्युदासीनानामपि साधनरहि- तानां सर्वोऽपि धान्यादिः सिद्ध्येत । अभावस्य सुलभत्वात् ॥ २७ ॥ इति द्वितीयाध्याये द्वितीयपादे चतुर्थं समुदाय उभयहेतुकेपीत्यधिकरणम् ॥ ४ ॥ नाभाव उपलब्धेः ॥ २८ ॥ (२-२-५) एवं कारणासत्त्वं निराकृत्य विज्ञानवाद्यभिमतं प्रपञ्चासत्त्वं निराकरोति । भाष्यप्रकाशः इत्यनेन पूर्वोक्तज्ञानस्य मोहनिवारकत्वमुक्त्वा श्रुत्यादिसिद्धभगवच्चेष्टाकथनश्रवणाभ्यां मुख्यज्ञानलाभं भगवत्प्राप्तिरूपां मुक्तिं चाह, न तु पूर्वोक्तरीतिकज्ञानेनेति न कोऽपि विरोध इति बोध्यम् ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ उदासीनानामपि साधनरहिताना- मिति कृष्यादिकर्मतत्साधनीभूतहलादिसाधनशून्यानाम् । निगदव्याख्यातमिदम् ॥ २७ ॥ ४ ॥ इति चतुर्थमुभयहेतुकेपीत्यधिकरणम् ॥ ४ ॥ नाभाव उपलब्धेः ॥ २८ ॥ द्वाभ्यां वैभाषिकसौत्रान्तिकयोर्मते निराकृते विज्ञानवाद्यपि कारणांशे निराकृत एव । तथापि कार्यांशे तन्मतं पूर्वस्माद् विलक्षणमिति तन्निराकरण- मातनोतीत्याशयेनाहुः एवं कारणेत्यादि । विज्ञानवाद्येव योगाचार इत्युच्यते । तत्स्वरूपं भास्कराचार्यैरुक्तम् । 'शमथविपश्यनायुगनद्धवाही मार्गो योगः' इति तेषां योगलक्षणम् । शमथः समाधिरुच्यते । विपश्यना सम्यग्दर्शनम् । यथा युगनद्धौ बलीवर्दौ वहतस्तथा यो मार्गः सम्यग्दर्शनवाही स योगस्तेनाचरतीति योगाचार इति । तेषां सम्यग्दर्शनं च सर्वं बाह्या- र्थशून्यं विज्ञानमेव, सर्वं क्षणिकं सर्वं निरात्मकमिति । तत्र सर्वक्षणिकत्वं, विज्ञानस्कन्धस्य क्षणिकत्वात् । निरात्मकत्वमालयविज्ञानातिरिक्तात्माभावात् । बाह्यार्थशून्यत्वं तु ज्ञानस्यैव साका- रत्वात् । तत्साकारत्वं तु ग्राह्यग्राहकसंविचिभेदेनै कस्यैव प्रत्यक्षतया प्रकाशमानत्वात् । न चैवं त्रिधा प्रकाशनेपि नानात्वम् । प्रमदातनुवदुपपत्तेः । तदुक्तम् रश्मिः। मुख्येति 'लब्धस्मृतिः' इत्यनेन । भगवत्प्राप्तीति 'अध्वनोऽन्तं पारं याति' इत्यनेन । आहेति ब्राह्मण आह । पूर्वोक्तेति कारणतत्त्वबोधेन । तथा च यदर्थं प्रवृत्तस्तेनैव मुक्तिरिति भावः । न कोपीति सप्तमस्कन्धे पञ्चदशे 'अबाधितोपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्धर्यविकल्पितम्' इत्यादिनावयवखण्डनं तत्राप्येवं न्यायः प्रचरतीति न कोपीत्यर्थः ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ निगदेति सिद्ध्येतेति छान्दस आत्म- नेपदं, सिद्ध्येत् ॥ २७ ॥ इति चतुर्थमुभयहेतुकेत्यधिकरणम् ॥ ४ ॥ नाभाव उपलब्धेः ॥ २८ ॥ विलक्षणमिति प्रपञ्चानन्यत्वं प्रपञ्चस्य विज्ञानानन्यत्वम् । वहत इति रथम् । सम्यगिति सम्यग्दर्शनस्य वाही । तत्रेति सर्वविज्ञाने । ग्राह्येति ग्राह्य- ग्राहको विषयेन्द्रियात्मा रूपस्कन्धः संवित्तिर्विज्ञानस्कन्धस्तयोर्भेदे नैकस्य विज्ञानस्कन्धस्य । प्रमदेति 1260