अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1387, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ अन्त्यावस्थितिर्मुक्तिसमयावस्थितिस्तस्माद्धेतोः। पूर्वदोषपरिहाराय च उभय- नित्यत्वं भवेदणुत्वं वा, महत्त्वं वा । उभयथापि शरीरपरिमाणो न भवतीति न तथार्थसिद्धिः ॥ ३६ ॥ इति द्वितीयाध्यायद्वितीयपादे षष्ठं नैकस्मिन्नसंभवादित्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः। दीपावयववद् गुच्छादिस्थितपटवद् वा संकुच्य तिष्ठन्ति, पुनर्हस्त्यच्छरीरप्राप्तौ विकासं प्राप्नु- वन्तीति विभाव्यते, तदापि विकारवत्त्वं तु दुष्परिहरम् । तथा सत्यनित्यत्वापाताद् बन्ध- मोक्षाङ्गीकारो बाध्यतेति ॥ ३५ ॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥ दूषणान्तरं वदतीत्याशये- नाहुः अन्त्येत्यादि । दिगम्बरैर्हि मोक्षावस्थागत