अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1392, कुल 2600 में से
संदर्भ में पढ़ें१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ७ सू० ३९ संबन्धानुपपत्तेश्च ॥ ३८ ॥ जीवब्रह्मणोर्विभुत्वादजसंयोगस्यानिष्टत्वात् पतित्वानुपपत्तिः । तुल्यत्वादप्य- नुपपत्तिरिति चकारार्थः ॥ ३८ ॥ अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ स चेश्वरो जगत्कर्तृत्वेन कल्प्यमानो लौकिकन्यायेन कल्पनीयः । स चाधिष्ठित भाष्यप्रकाशः। संबन्धानुपपत्तेश्च ॥ ३८ ॥ दृष्टानुसारेण दूषणान्तरं वदतीत्याहुः जीवेत्यादि । निमित्तमात्रत्वाङ्गीकारेण जीवपरमाण्वादीनां प्रधानस्य च नित्यत्वाङ्गीकारेण तन्निरूपितसम- वायस्य तदभिमतेश्वरे अभावात् समवायसंबन्धस्यानुपपत्तिः । जीवब्रह्मणोर्विभुत्वान्नव- यवत्वाच्च कर्मजस्यावयवजस्य च संयोगस्य वक्तुमशक्यतया जन्यस्य तस्याभावादजसंयोग