अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1394, कुल 2600 में से
संदर्भ में पढ़ें११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ७ सू० ४० करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ करणवदङ्गीकारे असम्बन्धदोषः परिहृतो भवति । तन्न युक्तम् । भोगादिप्रसक्तेः ॥ ४० ॥ भाष्यप्रकाशः । करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ परोक्तं परिहारमाशङ्क्य दूषयतीत्याहुः करण- वदित्यादि । करणवदिति द्वितीयार्थे वतिः । तथा च यथा शरीररहितोपि जीवः करण- ग्रामं मनश्चक्षुरादिकमधितिष्ठति स्वस्वकार्ये प्रेरयति, तथा ईश्वरोऽप्यशरीरः सर्वाञ्जीवान- धिष्ठास्यति । प्रधानपुरुषौ चाधिष्ठास्यति । अधिष्ठानं चात्र स्वस्वकार्ये नियोजनम् । एवं चासं- बन्धदोषोपि परिहृतो भवति । श्रेणीमुख्यवत् स्वस्वामिभावेनैव निर्वाहादिति चेन्नेदं युक्तम् । कुतः । भोगादिभ्यः भोगादिदोषप्रसक्तेः । यथा हि करणान्यधितिष्ठञ्जीवः पुण्यपापाभ्यां सुखदुःखभोगभाग् भवति, तत्र रागद्वेषादिवांश्च । तथैवेश्वरोपि भवेत् । तत्र तदसंसर्गे नियामकाभावात् । न चैश्वर्यस्य नियामकत्वम् । लौकिकैश्वर्यवत्स्वपि तेषां दर्शनात् । नापि निरतिशयितरूपाया ऐश्वर्यकाष्ठायाः । केवलाभिर्युक्तिमत्तस्या एवासिद्धेः । अतो नानेनापि दृष्टान्तेनाधिष्ठानसंभव इत्यर्थः ॥ ४० ॥ रश्मिः । करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ परिहारमिति संबन्धानुपपत्तिसूत्रोक्तसंबन्धा- नुपपत्तावपि संबन्धान्तरस्य स्वस्वामिभावस्याङ्गीकरणरूपपरिहारमाशङ्क्येत्यर्थः । द्वितीयार्थे इति । 'तेन तुल्यं क्रिया चेद्वतिः' । 'तत्र तस्य' इति सूत्रद्वयेन तृतीयासप्तम्योपषष्ठ्यर्थेषु वतिर्विहित- स्तथापि छान्दसोयं वतिरित्यर्थः । अत्र शंकराचार्यैर्द्वितीयाव्याख्याने षष्ठ्यर्थे वतिरुक्तः । करणानां तुल्यमीश्वरस्यायतनं यदि तदा भोगादिदोष इति । रामानुजाचार्यैः प्रथमार्ये वतिरुक्तः । यथा भोक्तुर्जीवस्य करणकलेवराद्यधिष्ठानमशरीरस्यैव दृश्यते तद्वत् ईश्वरस्याप्यशरीरस्य प्रधानाधिष्ठान- मुपपद्यत इति । वस्तुतस्तु 'करणवदित्यारभ्य द्वितीयायाधिष्ठास्यति' इत्यन्त आर्पो ग्रन्थः । 'कर्मादी- नामपि संबन्धसामान्यविवक्षायां षष्ठ्येव' इति सिद्धान्तात् । एवं च सर्वत्र द्वितीयास्थले षष्ठी प्रयोक्तव्या । षष्ठ्यर्थे वतिरिति । करणग्रामस्य मनश्चक्षुरादिकस्य सर्वेषां जीवानां प्रधानपुरुषयोरिति । द्वितीया तु कर्मणोत्र संबन्धसामान्यविवक्षा नेतरस्येति । 'तदर्हम्'इति सूत्रेण द्वितीयान्ताद्वतिस्तु न साध्यबोधं जनयति । 'विधिवत्पूज्यते हरिः' इत्यत्र विधिविषययोग्यतातत्कर्तृ हरिकर्मकं देवदत्त- कर्तृकं पूजनमिति बोधात् । विग्रहस्तु विधिमर्हतीति विधिवदित्यन्यत्र विस्तरः । यद्वा वास्तु छान्दसो वतिर्मास्तु चार्षो ग्रन्थः । किंतु करणमर्हतीति करणवदिति सूत्रभाष्ये व्याख्यातव्ये । अधितिष्ठतीत्यसार्थोत्यर्थः । अधिष्ठास्यतीत्यनयोरिर्हत्यतीत्यर्थः । शरीररहित इति 'कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' इति गीतायां पञ्च- मेऽध्याये । परोक्तौ ष्ठाधातुरत्र लिखितस्तदर्थमाहुः अधिष्ठानमिति । असंबन्धेति । संबन्धा- नुपपत्तिसूत्रोक्तो योऽसंबन्धः स दोषः सोपि परिहृतो भवतीत्यर्थः । श्रेण्यां पङ्क्तौ मुख्यः स्वामी । अन्ये ते सेवकास्तद्वत् । तन्न युक्तमिति भाष्यार्थमाहुः नेवमिति । सूत्रव्याख्येयांशोपन्यास- पूर्वकं भोगादीति भाष्यं विवृण्वन्ति स्म भोगादिभ्य इति । अधितिष्ठन्निति अर्हन्नित्यर्थः । तेषामिति दोषाणाम् । तथा चैश्वर्यस्य दोषासंसर्गनियमकत्वे दोषदर्शनं तस्मादिति भावः । तत्रेति ईश्वरे करणकृतदोषासंसर्गेः । असिद्धेरिति निरतिशयितैश्वर्यकाष्ठायाः कापीश्वरातिरिक्तऽ- भावात् । दृष्टानुसारिणी युक्तिरिति भावः । अधिष्ठानेति स्वस्वकार्ये नियोजनसंभवः ॥ ४० ॥ 1286