अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1396, कुल 2600 में से
संदर्भ में पढ़ें५५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ८ सू० ४२ उत्पत्त्यसंभवात् ॥ ४२ ॥ ( २-२-८ ) भागवतमते कंचिदंशं निराकरोति । ते च चतुर्व्यूहोत्पत्तिं वदन्ति । वासुदेवात् संकर्षणस्तस्मात् प्रद्युम्नस्तस्माद- निरुद्ध इति । तत्रैषामीश्वरत्वं सर्वेषामृत संकर्षणस्य जीवत्वम् । अन्यान्यत्वम् । उत्पत्तिपक्षे जीवस्योत्पत्तिर्न संभवति । तथा सति पूर्ववत् सर्वनाशः स्यात् ॥ ४२ ॥ भाष्यप्रकाशः । तस्मादेकदोषवारणे दोषान्तरसंभवादसंगतस्तार्किकाणां वाद इति । माध्वा रामानुजाश्चात्र केवलं माहेश्वरमतनिराकरणमेवाधिकरणप्रयोजनमाहुः । शैवास्तु पूर्वाचार्यव्याख्यां शिवस्य केवलनिमित्तत्वबोधकशिवागमैकदेशदूषणपरामुकत्वा केवलेश्वरनिमित्तत्ववादिहिरण्यगर्भोक्तयोगस्मृतिमात्रनिराकरणपरामित्याहु । तदसङ्गतम् । केषां- चिदाचाराणां शैवपुराणाविरुद्धत्वेपि पूर्वोपदर्शिताचाराणां विरुद्धत्वेनाप्रामाण्यादिति । मिश्रस्तु सांख्याद्युक्तेन विरोधितर्केणानुकूलतर्काभावेन श्रुतिप्रवृत्तेः प्राग्व्याप्तिग्रहाभावेन केवलानुमानैरीश्वरसाधनं निराकर्तुमिदमधिकरणमासमाप्त्येकमित्याह ॥ ४१ ॥ इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ अधिकरणप्रयोजनमाहुः भागवतेत्यादि । ननु श्रुत्यविरुद्धा स्मृतिः प्रमाणमिति स्थितिः । पञ्चरात्रे च परमात्मा वासुदेव एव जगत उपादानं निमित्तं चोच्यते । योगश्च तत्प्राप्त्युपाय उपदिश्यते । अभिगमनोपादानेज्यास्वाध्याययोगै- र्भगवन्तं वासुदेवमाराध्य क्षीणक्लेशस्तमेव प्रतिपद्यत इति । अयं च सर्वोपि प्रपञ्चः श्रुति- प्रसिद्ध एवेति कुतो निराकरणमित्याशङ्कायां तमंशं स्फुटीकुर्वन्ति ते चेत्यादि । चतुर्व्यूहो- रश्मिः । गुणत्रयातिरिक्तयोगस्येश्वरेऽनङ्गीकारात् । नाद्या । लक्षणं स्वरूपं तु इन्द्रियसंबद्धविशेष्यकज्ञाने प्रकारीभूतं गृहीतम् । तत्रेन्द्रियसंबद्धेत्यत्रेन्द्रियसंबन्धश्च लौकिको गृहीत इत्यप्रसक्तेः । या द्वितीया सुरभिचन्दनमित्यत्र सौरभस्य सामान्यलक्षणया ग्रहणात्सुरभित्वग्राहिका सा तु भवेत्परं व्याप्तिं प्रति- रुन्ध्यादिति । तस्मादिति भाष्यं विवृण्वन्ति स्म तस्मादिति । अन्तवत्त्वदोषवारणेऽपि विभुत्वनित्यत्वा- भ्यामसर्वज्ञता दोषान्तरसंभवात् । इतीति तर्काप्रतिष्ठानसूत्रात् समाप्तावितिः । केवलेति एतादृश- निराकरणपरां तामाहेतीत्यन्वयः । इतिः शैवोक्तिसमाप्तौ । पूर्वेति पूर्वाचार्योपदर्शितानामाचाराणाम् । सांख्येति रचनानुपपत्तिसूत्रानूदितेन । श्रुतीति 'यतो वा इमानि' इति श्रुतिप्रवृत्तेः प्रागित्यर्थः । व्याप्तीति यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वमिति व्याप्तिस्तस्या ग्रहाभावेन । केवलेति क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवदित्याद्यनुमानैरीश्वरसाधनं तन्निराकर्तुम् । आ- समाप्तीति समाप्तिमभिव्याप्येत्यासमाप्ति ॥ ४१ ॥ इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ स्थितिरिति पूर्वतन्त्रे मर्यादा । अभीति अभिगमनं ज्ञानं ज्ञानपादे । उपादानेज्या क्रियापादचर्यापादयोः । स्वाध्याययोगो योगपादे । तमिति 1288