अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1409, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३ न्यायेनैका, अपरा वियदादिक्रमेण, सा चानामरूपात्मनो नामरूपवत्त्वेनाभि- व्यक्तिः। सजडस्यैव कार्यत्वात् तस्य जीवस्य त्वंशात्वेनैव न नामरूपसंबन्धः। 'अनित्ये जननं नित्ये परिच्छिन्ने समागमः । नित्यापरिच्छिन्नतनौ प्राकट्यं चेति सा त्रिधा' ॥ तत्र क्रमसृष्टौ सन्देहः । छान्दोग्ये हि, 'सदेव सोम्येदमग्र आसीदेकमेवा- द्वितीयम्' इत्युपक्रम्य 'तदैक्षत तत् तेजोऽसृजत' इति तेजोऽन्नसृष्टिरुक्ता, न भाष्यप्रकाशः। श्मैस्यास्तथात्वावगमात् । ननु सर्वस्य ब्रह्मरूपत्वे सृष्टिरेवासंगता, तस्या उत्पत्तिरूपत्वाद्, ब्रह्मणश्चाजत्वादित्याकाङ्क्षायामाहुः सा चेत्यादि । न नामरूपसंबन्ध इति न प्रतिनियत- नामरूपसंबन्धः। तथा च प्रलयदशायां कार्यस्य कारणे लयानन्तरं तस्य परमकारणेन ब्रह्मनै- कीभावात् प्रतिनियतनामरूपशून्यत्वेनानामरूपत्वं तादृशस्य या प्रतिनियतनामरूपत्वेना- भिव्यक्तिः प्रकाशः सैव सृष्टिर्न तु नैयायिकादीनामिकासतः सत्तास्पा, अतस्तस्या अजत्वावि- रोधित्वाद्भासंगतमित्यर्थः । एतेन कालविशेषे प्रतिनियतनामरूपशालित्वं कार्यत्वमित्यपि व्याख्यातम् । अत एव कटककुण्डलादौ सुवर्णकार्यत्वव्यवहारो न सुवर्णशकले, तथात्रापि जडजीवयोर्बोध्यम् । नन्वेवं सति ब्रह्मणो जीवकारणता न स्यात् तथा सति तत्र जीव- नियामकतापि भज्येतेत्यत आहुः अनित्य इत्यादि । सेति अभिव्यक्तिः । तथा च त्रिविधाया अप्यभिव्यक्तेर्ब्रह्माधीनत्वात् तिसृष्वपि ब्रह्मणः कारणत्वमक्षुण्णमिति नियामकताऽप्यक्षुण्णेत्यर्थः । एवं प्रासङ्गिकं परिहृत्य प्रस्तुतं व्याकर्तुं तदावश्यकताबीजमाहुः तत्र क्रमेत्यादि । तथा चैवं सत्यामेकवाक्यतायामेकत्रोक्तत्वादन्यत्रानुक्तत्वाच्च संदेह इत्यर्थः । यदि च छान्दोग्ये तेजसः सृष्टिकर्मत्वेन कथनादसृजतेत्यादिसृष्टिवाचकपदोपादानादीक्षापूर्वकत्वाच्च मुख्यतया रश्मिः। रूपस्य च सत्त्वाद्विशेषपरतामाहुः न प्रतीति प्रतिनियतनाम्नां देवदत्तादीनां प्रतिनियतरूपाणां करचरणादीनामित्यर्थः । तस्या इति अङ्गीकृताया अभिव्यक्तेः । तदुक्तमेकादशस्कन्धे 'जन्म स्वात्म- तया' इति द्वाविंशे भगवता । कालेति कालविशेषे सृष्टिकाले । व्याख्यातमिति विशेषेणोक्तम् । विशेषशब्दकृत्यमाहुः अत एवेति अस्माद्विशेषशब्दघटितलक्षणादेव । न सुवर्णेति कालवि- शेषाभावात् । न चाभावप्रतियोगित्वरूपकार्यलक्षणसत्त्वात्सुवर्णशकलेपि कार्यत्वमिति वाच्यम् । सुवर्णशकलेति नाम एकरूपदीर्घादिरूपस्य प्रतिनियतत्त्वाविवक्षणात् । जडजीवयोरिति तयो- र्जडस्यैव कार्यत्वं बोध्यम् । जडस्यैवोक्तकार्यलक्षणकत्वात् । तेन कार्यलक्षणान्तरे श्रुत्यनुकूलस्व- रूपो गुण उक्तः । एवं सतीति जीवस्य कार्यलक्षणानक्रान्तत्वे सति । जीवेति कारणलक्षणस्य कार्यघटितत्वात् । अनन्यथासिद्धत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति । जीवेति 'य आत्मानमन्तरो यमयति' इत्यन्तर्यामिब्राह्मणोक्ता । तिसृष्विति अनित्यघटादौ जननरूपायां, नित्ये जीवादाँ परिच्छिन्नेऽण्वादिपरिमाणविशिष्टे देहे समागमरूपायां, नित्यापरिच्छिन्नतनौ ब्रह्मणि प्राकट्यमाविर्भावस्तासु । कारणत्वमिति आद्य उत्पादकत्वम्, द्वितीये विभाजकत्वम्, तृतीये दर्शकत्वमिति विभागः । तदेति श्रुतिविरोधरूपप्रस्तुतावश्यकतायां बीजं संदेहरूपमाहुरित्यर्थः । छान्दोग्य इत्यादि भाष्यं विवरीतुं शङ्कामाहुः यदि चेति । ईक्षेति । चकारात्तदभ्यध्यायत् जायत १. कार्यकाले । 1299