अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1423, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७ असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ ( २-३-३ ) ननु ब्रह्मणोऽप्युत्पत्तिः स्यात् 'आकाशवत् सर्वगतश्च नित्यः' इति श्रुते- भाष्यप्रकाशः। मातरिश्वा । डुञो षि गतिवृद्धौ । तथा च भूतात्मा वायुर्नोत्पद्यते, छान्दोग्ये अश्रवणादिति पूर्वः पक्षः । तैत्तिरीये श्रवणादुत्पद्यत इति सिद्धान्तः । अन्येऽपि गौण्यादिसूत्रोक्ताः पक्षा अत्र योजनीयाः । सूत्रे, एतेनेत्यतिदेशात् । अमृतत्वश्रुतिस्त्वापेक्षिकी, म्लोचन्तीति श्रुत्यनुसारेण तथा निर्णयस्य सिद्धत्वात् । तस्माद् वायुरुत्पद्यत इति सिद्धम् ॥ ८ ॥ इति द्वितीयं एतेन मातरिश्वैत्यधिकरणम् ॥ २ ॥ **असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ व्याकुर्वन्ति नन्वित्यादि । अय