भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1428, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1428

श्चार्थम् । तथाचोपजीव्यस्य प्राधान्याद् वायुभावापन्नमेव सत् तेजस उत्पादक- मिति स्वीकरोति । ब्रह्मण एव सर्वोत्पत्तिपक्षस्त्वविरुद्धः ॥ १० ॥ इति द्वितीयाध्याये तृतीयपादे चतुर्थं तेजोऽत इत्यधिकरणम् ॥ ४ ॥ आपः ॥ ११ ॥ (२-३-५) तथा ह्याहेत्येव । इदमेकमनुवादसूत्रमविरोधख्यापकम् । न श्रुत्योः सर्वत्र विरोध इति ॥ ११ ॥ इति द्वितीयाध्याये तृतीयपादे पञ्चमं 'आपः' इतिपञ्चममधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः । प्राधान्याद् वायुभावापन्नमेव सत् तेजस उत्पादकमित्येवमश्रुतमपि क्रमं स्वीकरोतीति विरो- धपरिहार इत्यर्थः । तस्माद् वायुद्वारेव तेजःसृष्टिरिति सिद्धम् । नन्वाथर्वणे यथा साक्षात्सृष्टि- रुक्ता, 'एतस्माज्जायते प्राणः' इति, तथा, तैत्तिरीये, 'इदꣳ सर्वमसृजत' इत्युक्ता । तत्र किं विस्फ

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1428, कुल 2600 में से · BharatKosha