अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1432, कुल 2600 में से
संदर्भ में पढ़ें२६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० ६ सू० १२ भाष्यप्रकाशः । स्कन्धे च, 'एवं पृथ्वादयः पृथ्वीमन्नादाः स्वमनात्मनः' इति वर्षणभूयिष्ठलिङ्गमपि त्रिषु तुल्यम् । वर्षणे पृथिव्या आर्द्रतया भूयस्त्वात्, ओषधिवीरुधां ब्रीह्यादीनामृतुप्रवेशे, तस्माद् वाक्यशेष- लोकप्रसिद्धिलिङ्गानां त्रिष्वपि तुल्यत्वात् पृथिव्याद्यन्यतमे वक्तव्ये अन्नमुक्तम्, एवं चोप- जीव्यवाक्यरूढिप्रायपाठानां त्रयाणामविरोधोऽतस्तन्नयेऽपि ग्राह्यत्वेन प्राप्ते इत्यर्थः । सिद्धान्ते तु लक्षणा नास्त्येव, योगनैर्बल्यं त्वधिकारादिभिर्हेतुभिः परिहियत इति न कोपि दोषः । रश्मिः। देहा मृदादिजनिता इति । अमृताविति अमृतं जलमतीत्यमृतादा तासु । 'दृङ्निमज्जनमुपैति सुधायाम्' इतिचतुर्थश्चरणः । तथा च