अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1440, कुल 2600 में से
संदर्भ में पढ़ें६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० ९ सू० १५ काशयोः प्राण एव गतत्वात् । आकाशात् पूर्वं विज्ञानमनसी उत्पन्ने इति वक्त- भाष्यप्रकाशः। अन्तररेति च न वदेत् । वायुतेजःप्रभृतिष्वन्तरेति पदं विनापि प्रणयनात्, अत एतद्वाक्यविचार एव व्यासाशयः । एवं सति छान्दोग्योक्तानां तेजोऽबन्नानामन्नमये गतत्वाद् वाय्वाकाश- योरङ्गीक्रियमाणयोः प्राणमये गतत्वाद् आकाशात् पूर्वं विज्ञानमनसी विज्ञानं जीवाः मनोऽन्तःकरणमुभयविधबाह्येन्द्रियनायकमिति तदुपलक्षितं करणकदम्बकं चेति द्वे उत्पन्ने इति वक्तव्यम्, अन्यथा 'सर्व एवात्मानो व्युच्चरन्ति' इति श्रुत्युक्तानां जीवानाम्, 'एतस्माज्जायते प्राणः' इति श्रुतौ स्मृतिपुराणादिषु च जगत्कारणकोटिनिविष्टानां प्राणादीनां महदहंकारादीनां च ब्रह्मकार्येष्वनिवेशे क्रमसृष्टौ न्यूनताऽऽपद्येत । न चाकाशादिग्रहणे यथा महाभूताधिकारो नियामकस्तथात्र विज्ञानमनसोर्ग्रहणे नियामकं छान्दोग्ये नास्तीति वाच्यम्, तयोरग्रे, 'अनेन जीवेनात्मनाऽनुप्रविश्य' इति, 'षोडशानां कलानामेका कलाऽतिशिष्टाऽसीद्' इति वचनमेव लिङ्गम् । रश्मिः। तत्फलं तु विपर्ययेण इत्यनुवृत्त्य मध्ये विज्ञानमनसी विपर्ययेण मनो विज्ञाने इति वक्तव्येऽभ्यर्हितं चेति सूत्रेण विपर्ययेणोक्ते इत्येवं शिष्याः सूत्राशङ्कां पराकुर्युरिति व्यासाशयसूचनम् । तर्हि कः शब्दोऽर्थसूचक इत्यत आचार्याः अन्तरेति । हेत्वन्तरभाष्यमिदम् । आनन्दमयान्नमयोर्मध्ये विज्ञा- नमनसी इत्यभिदधदन्तराशब्दो विज्ञानमनसी अन्नमयप्राणमये इत्येव पञ्चानां प्रयोगे मध्ये शङ्कापहारी सूचयतीत्यर्थः । तथाच अन्तरेतिवचनात् अन्तराशब्दएव सूचक इति भाष्याभावार्थः । व्याचक्षते स्म एतदिति । एतद्विपर्ययेणेत्यस्यावर्तनम् । तदभिध्यानसूत्रे समाप्ताकाशायुत्पत्तिविचारान्त एतद्वि- चारस्य युक्तत्वादित्यर्थः । वायुतेज इति । निर्णेतव्येष्विति शेषः । प्रणयनादिति । एतेनेत्यादि- सूत्रचतुष्टयप्रणयनात् । एवं चात्रैवैतादृशौ मध्ये शङ्कापरिहारौ न पूर्वसूत्रेष्विति व्यासाशयः । अत एतदिति । विज्ञानमनसी इत्येवं सौत्रेण विषयवाक्यविचार एव । तेज इति भाष्यं विवृण्वन्ति स्म एवं सतीति । गतेति । पाञ्चभौतिकत्वाद्देहस्य । यद्वा । अग्निमीळे पुरोहितमिति तेजः । ईडे इड स्तुतौ । इषेत्वेत्यन्नं इड् अन्नमिति व्याख्यानात् । ऊर्जेत्वेत्यापः । ऊर्क तदन्तर्गतो रस इति व्याख्यानात् । कीटेषु त्रयं प्रसिद्धम् । अङ्गीति । तत्तेजोऽसृजतेति तेजःपदेन तैत्ति- रीयकमनुरुध्य लक्षणयाङ्गीक्रियमाणयोराक्षेपेणाङ्गीक्रियमाणयोर्वा । गतेति । आकाश आत्मेति प्राणमयावयवनिरूपकश्रुतेः । पूर्वमिति । आकाशस्य शरीरत्वात्पूर्वम् । 'आकाशशरीरं ब्रह्म' इति श्रुतेः । तत्रापि पूर्वं मनः पश्चाद्विज्ञानम् । तन्मनोऽकुरुतेति 'नैवेह किंचनाग्र आसीत्' इत्यासन्ने श्रुतेः । अन्यथेति । द्वयोरनुत्पत्तौ प्रकारे सति । एतस्मादिति । एतस्माज्जायते प्राण इत्यादि । स्मृतीति । 'उद्वबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहंकार- मभिमन्तारमीश्वरम् । वैकारिकं तेजसं च तथाभूतादिमेव च । स एव च त्रिधा भूत्वा महदित्येव संज्ञितम् । महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च' इति मनुस्मृतीत्यर्थः । पुराणेति । एकादशे चतुर्विंशे । आसीज्ज्ञानमयो ह्यर्थ इत्यादिभित्यर्थः । तयोरिति भाष्यं विवरीतुमाहुः नवेति । आकाशादीति । छान्दोग्ये तत्तेजोऽसृजतेत्यत्र तेजःपदे लक्षण्या । महेति । तत्तेजोऽसृजत तदपोऽसृजतेति महाभूताधिकारः। विवृण्वन्ति स्म तयोरग्र इति । विज्ञानमनसोरग्रे वचनमित्यन्वयः षोडशेति । व्याख्यातेषा । 1330