अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1444, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete and accurate, line-by-line transcription of the Sanskrit text from the image into Unicode Devanagari.
निर्वाहाय क्रमान्तरापेक्षा, अभौतिकत्वपक्षे तु भूतेभ्यः पूर्वमित्युक्तम् । तत् तदनुसारिणामेव रोचिष्णु । आद्यस्य काठकवाक्यस्योत्पत्तिप्रकरणीयत्वाभावेन विषयवाक्यत्वायोगात्, बुद्ध्या- दीनां त्रयाणां तत्र पृथगुक्त्या सौत्रद्विवचनविरुद्धत्वाच्च । द्वितीयस्य मुण्डकवाक्यस्य च बुद्धि- रहितत्वेनैव तथात्वाच्च । करणव्युत्पत्तेर्बुद्ध्यादित्रयसाधारण्येन सूत्रे मनःप्रयोगवैयर्थ्यापत्तेश्च । भौतिकेन्द्रियपक्षानादरणीयताया अस्माभिः प्रागुपपादितत्वेन तद्रीत्या छान्दोग्ये तन्निषेध- स्याशक्यवचनतया, अभौतिकपक्षे चात्माकाशयोरन्तराले वा पश्चाद्वा तेषां प्राप्त्या सूत्रीय- सिद्धान्तसोपपत्तिशून्यतया शैथिल्यप्रसङ्गाच्च । न च 'प्रजापतिर्वा इदमग्र आसीत् स आत्मानमै- क्षत स मनोऽसृजत तन्मन ए