अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1446, कुल 2600 में से
संदर्भ में पढ़ें४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० ९ सू० १६ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥१६॥ ननु विज्ञानमयस्य जीवस्यानुत्पत्तौ सर्वव्यवहारोच्छेदः । उत्पत्तिस्तु भाष्यप्रकाशः । चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥ जीवाद्यनुत्पत्तावेव किञ्चिदाशङ्क्य परिहरतीत्याशयेन सूत्रमुपन्यस्य व्याकुर्वन्ति । नन्विव- त्यादि । जीवस्येत्युपलक्षणम्, पूर्वसूत्रे वेदस्यापि विचार्यत्वेनोपक्षिप्तत्वात्, अतो विज्ञानमयस्य रश्मिः । विष्णुपदप्रयोगात् । कालरूपस्य यज्ञरूपस्य वेति विष्णोरित्यस्य व्याख्यानाच्च । 'कालोऽस्मी'ति गीतावाक्यात् पुरुषाभेदेन व्याख्याने कथनाच्च । माध्वास्तु इदं रूपं सृष्टादिकर्तृ ब्रह्म चेतीति । 'नात्माश्रुतेर्नित्यत्वाच्च ताभ्य' इति सूत्रे तथा दर्शनात् । 'कस्तस्य मेढ्रं सर्वात्मनोन्तःकरणं गिरित्रमि'ति ब्रह्मशिवयोस्तदनु पुरुषस्य नाभ्यान्नलिनात् जन्म ब्रह्मणः । तस्य भ्रुवोर्मध्याद्रुद्रस्य जन्मेति गुणत्रयाभिमानिनो देवाः । तदुक्तं द्वितीयस्कन्धे 'सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्' इति ब्रह्मवाक्ये । ततो ब्रह्मणोन्ध- तामिस्रादिकं सनकादिकं रुद्रश्च मरीच्यादिकं च जातम् । तदेतत्तृतीयस्कन्धे द्वादशेऽध्यायेऽस्ति । 'ततः प्रजाभिः प्रार्थितः पृथुः । समां पृथिवीं कृपया यतनादिकमचीकरत् । चूर्णयन् स्वधनुःकोट्या गिरिकूटानि राजराट् । भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः । अथास्मिन्भगवान्वैन्यः प्रजानां वृत्तिदः पिता । निवासान्कल्पयांचक्रे तत्र तत्र यथार्हतः । ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् सशिबिरान् आकरान् खेटखर्वटान् । प्राक् पृथोरिह नैवैषा पुरग्रामादिकल्पना । यथासुखं वसन्ति स्म तत्र तत्राऽकुतोभयाः' इति चतुर्थस्कन्धीयाष्टादशाध्यायवाक्यात् । चतुर्दशलोकानां मर्यादापालनं पञ्चमस्कन्धे । तृतीयस्कन्धपञ्चमाध्याये तथैव दर्शनात् । किञ्चातलादिषु सप्तसु-अतले आयुश्चतुर्दश- वर्षाणि । वितले द्वादशवर्षाणि । सुतले दशवर्षाणि । तलातलेऽष्ट । महातले षट् । रसातले चत्वारि । पाताले द्वे वर्षे इत्यायुर्विभागः स्वीकर्तव्यः । एकादशेऽपि । 'देवानामोक आसीत्स्वर्भूतानां च भुवः पदं । मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् । अधोऽसुराणां नागानां भूमेरोकोऽसृजत्प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् । योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः । महर्जनस्तपः सत्यं भक्तियोगस्य मद्गति'रिति चतुर्विंशे । एवं शब्दादयस्तन्मात्रापि तत्तन्महाभूतेभ्यः पूर्वमुत्पन्ना वेदितव्याः । एकविंशाद्यध्यायेषु भुमर्यादापालनम् । चतुर्विंशे अतलादिमर्यादापालनं तु स्फुटतरम् । एवं सत्यलोकेऽभयं तपोलोके क्षेमः जनलोकेऽमृतम् । 'अमृतं क्षेममभयं त्रिमूर्धोऽधायि मूर्धसु' इति द्वितीयस्कन्धात् । महर्लोकादारभ्य भूर्लोकपर्यन्तं दुःखसंमिश्रं सुखम् । 'यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोर्दिता' इति वाक्यात् । स्वर्गादौ दुःखदर्शनाच्च । अतलादौ तु मायिकमेव विषयसुखमिति चतुर्विंश एवोक्तम् । प्रश्नोपनिषदि गार्ग्यप्रश्ने । 'पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशं चाकाशमात्रा चे'ति तन्मात्राणां पृथक्श्रवणात् । इति विस्तरे संक्षेपः ॥ १५ ॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥ जीवादीति । जीवत्वेन जीवग्रहणम् । तेन विराड्जीवस्तु भोगभुगिति विराड्जीवस्यापि ग्रहणम् । सूत्रे चराचरव्यपाश्रयपदात् । अनेनैव पदेन ब्रह्माण्डस्य तृतीयं सर्वभूतस्वरूपमुद्देशेन कीर्तितम् । 1336