भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1468, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1468

An exact line-by-line transcription of the provided page in pure Markdown with Devanagari Unicode:

चोत्तरयोरित्यणुत्वम् । 'अङ्गुष्ठमात्रं पुरुषं निष्कर्ष यमो बलात्' इति, उत्क्रमे गत्यतिरिक्ते स्वातन्त्र्याभावात् । स्वात्मना जीवरूपेण, चकारादिन्द्रियैश्च गत्यागत्योः संबन्धी जीव इत्यर्थः । अतो मध्यमपरिमाणमयुक्तमित्यणुरेव भवति ॥ २० ॥ भाष्यप्रकाशः । षष्ठ्यन्तपदमात्रप्रयोगाद्, उक्तश्रुतिभ्यो ज्ञ उत्क्रान्तिगत्यागतिसंबन्धीति तत्संबन्धरूप एव धर्मो बोध्यते, द्वितीये तु ज्ञः श्रुतिभ्य एव स्वात्मनापि उत्तरयोर्गत्यागत्योः संबन्धीत्यणुत्वं बोध्यते, तदुपपादयन्ति, अङ्गुष्ठेत्यादि । तथाचोक्तस्मृत्या मध्यमपरिमाणत्वेन बोधितस्य जीवस्य 'अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाऽहंकारसमन्वितो यः, बुद्धेर्गुणेन' इति श्रुत्युक्तबुद्धि- रश्मिः ।