अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1477, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७१ लोकप्रतीतिस्तु सर्वैर्वादिभिरुपपाद्या । तन्न गुणिकल्पनापेक्षया गुण एव स्थलान्तर आरभ्यत इति कल्यताम् । तथैव लोकप्रतीतेः । पुष्परागादेरपि प्रभास्वरूपमेव तावद्देशं व्याप्नोतीति मणिखभावादेवाङ्गीकर्तव्यम् । आरम्भकस्य तेजसस्तत्राभावात् । कान्तिः प्रभा रूपमिति हि लोके पर्यायः । वाशब्दो यथालोकं युक्तिः कल्पनीयेति सूचयति । भाष्यप्रकाशः । प्रभा न निवर्तेत यथा चिन्तामण्यादिनिष्प्रभाः पदार्थाः । अतो मणिविजातीयद्रव्यस्यात्र प्रभारम्भकत्वं प्रमाणाभावग्रस्तमेव । ननु यद्यप्येवमस्ति तथापि गुणारम्भस्य गुणिमात्रवृत्तित्वमिति नियमो भज्येत, तथा सति रसादीनामप्यन्यत्रारम्भापत्त्या लोकप्रतीतिरपि विरुद्ध्येतेत्याकाङ्क्षायां लोकप्रतीतिमुपपादयन्ति लोकेत्यादि । तन्नेति लोकप्रतीत्युपपादने । तत्राभावादिति मणावभावात् । तथाचाप्रकृष्टगुणारम्भस्य गुणिमात्रवृत्तित्वमित्येवं लोकप्रतीतिनिर्वाहाय कल्पनीयं तेन सर्वसामञ्जस्यमित्यर्थः । अत्र कोशस्यापि संमतिरित्याहुः कान्तिरित्यादि । 'शोभा कान्तिर्धुतिश्छविः' इति, 'स्युः प्रभारुगुचिस्त्विट्भा'इत्यादि । वाशब्दप्रयोजनमाहुः वाशब्द इत्यादि । तथाच वाशब्द एवकारार्थो वाक्यालंकारे । तथाच लोकवदेव गुणाद्- रश्मिः। नुपलब्धिसतया । चिन्तेति पञ्चम्यन्तमिदम् । तथेति विजातीयेन द्रव्येण गुणोत्पत्तिः । एवेति उक्तप्रमाणव्याख्यानसंग्रहादेवकारः । गुणीति यथा गुणिघटादिमात्रवृत्तित्वम् । तत्रमाया गुण- मात्रत्वे भज्येत । अन्यत्रेति स्वाश्रयाधिकदेशे आरम्भापत्त्या लोकप्रतीतिस्तावद्देशावच्छेदेन । भाष्ये । मणिप्रवेकस्य कान्तिः, सूर्यादेः प्रभा, पुष्परागादेः प्रभा रूपमित्याशयेनाहुः पुष्पेति । आदिशब्देन तेजः रूपमेवेति भास्वरं रूपं न तु स्वाश्रयाधिकदेशम् । एवं प्रभात्वसाम्येपि शेषमणिप्रवेककान्तिर्धुमणिप्रभा पुष्परागस्यतेजसश्च प्रभा रूपमित्येवं विवेके स्वभावं हेतुमाहुः मणीति । स्वभावोऽत्रेच्छातोन्यस्तेन 'कालः स्वभावो नियतिः' इत्यसा न विरोधः । मणाविति । 'यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्' इत्यत्र तेजोऽ- नारम्भकं बोध्यम् । मणिस्तु तेजोंऽशसंभवोस्येव । अस्मिन्पक्षे नियमेऽप्रकृष्टविशेषणमाहुः तथाचेत्यादि प्रभाया। गुणत्वे च । अप्रकृष्टत्वं कान्तिगन्धातिरिक्तत्वम् । सर्वेति नियमभङ्गक- ल्पनापत्तिविरहसामञ्जस्यम् । अत्रेति लोके त्रयाणामेकार्थत्वे । 'भेति भास्वरं रूपं न तु भास्वत् , गुणे गुणानङ्गीकारात् । भासा वरं भास्वरम् । तेजः सूर्यादिः पृथक् तद्गुणाः कान्तिप्रभारूपाणि पृथक् । वाशब्द इत्यादीति । विकल्पार्थकः । सूचयति श्रुत्यनुभवाभ्यां वेधे जीवे विद्वद्द्वै- शेषिकयुक्त्याकुलिते सति द्रव्यमात्मा चैतन्यगुण इत्येवं भगवता व्यासस्य खेदलक्षणयायमर्थः प्रकाश्यते इत्यर्थः । यतो व्यासो ऽयं चैतन्यगुणं वदन् गुणाद्वैत्यप्यसूत्रयदतो व्यासस्य वाशब्दं प्रयुञ्जानस्य खेदः । तथाह काव्यप्रकाशकृत् तृतीयेोल्लासे 'तथामूतां दृष्ट्वा नृपसदसि पाञ्चालतन्यां वने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषु' इत्यत्र मयि भीमे न योग्यः खेदः कुरुषु योग्य इति प्रकारयत इति । इदं वाक्यं भीमस्य, संधिं कुर्वता युधिष्ठिरेण प्रेषितं सहदेवं प्रति । एवकारेति । 1367