भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1484, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1484

Here is the line-by-line transcription of the Sanskrit text from the image:

७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १२ सू० २७ कर्मणो दूराद् गन्धो वाति' इति । अन्यथा कल्पना त्वयुक्तेत्यवोचाम ॥ २६ ॥ तथा च दर्शयति ॥ २७ ॥ हृदयायतनत्वमणुपरिमाणत्वं चात्मनोऽभिधाय तस्यैव 'आलोमभ्य आन- खाग्रेभ्यः' इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २७ ॥ भाष्यप्रकाशः। न्तरशैत्यं निम्बतरुविशेषसंपर्कशालिवातसंसर्गजमुखतिक्तत्वमपि व्याख्यातं ज्ञेयम् । न चैवं सर्वत्रा- तिप्रसङ्गः शङ्क्यः । उत्कटत्वानुत्कटत्वयोरेव तद्धर्मयोर्निर्गमानिर्गमनियामकत्वादिति संक्षेपः । तदेतद् हृदि कृत्वाऽऽहुः अन्यथेत्यादि । अवोचामेति पूर्वसूत्र एवोक्तमित्यर्थः ॥ २६ ॥ तथा च दर्शयति ॥२७॥ चैतन्यस्य गुणत्वे प्रमाणं दर्शयितुमिदं सूत्रमित्याशयेनोपन्यस्य विवृण्वन्ति हृदयायतनेत्यादि । एतद्विषयवाक्यं कौषीतकिब्राह्मणे । तत्र हि 'तं होवाचाजात- शत्रुर्यत्रैष एतद् बाणाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागात्' इति प्रतिज्ञाय, 'हिता नाम पुरुषस्य नाड्यो हृदयात् पुरीततमभिपतन्वन्ति' तद् 'यथा सहस्रधा केशो विपाटितस्तावदण्यः रश्मिः । कार्यबलेनान्यत्रापि स्वाश्रयाधिकदेशवृत्तित्वमाहुः गन्धेनैवेत्यादि । गन्धदृष्टान्तेनैव । व्याख्यात- मिति स्वाश्रयाधिकदेशवृत्तित्वेन व्याख्यातमुक्तप्रायमित्यर्थः । तथा च शैत्यादेः स्पर्शधर्मतया चन्दन- स्पृष्टवायोः स्पर्शसत्त्वेन शैत्यस्पर्शवान्वायुस्तत्संपर्कः स्पर्शस्तच्छालि शालान्तरमिति तस्य शैत्यं संयुक्तसंयोगसंबन्धेन । वायुतादात्म्यापन्नेन चन्दनशैत्येन शालान्तरस्पर्शात् । एवं निम्बतरुविशेष उत्कटतिक्तकस्तत्संयोगशाली वात इति निम्बरससंयुक्तत्वं भवति । तस्येति दृष्टं तादृशस्य मुखे संसर्गे तद्रसो रसनेन्द्रियेण गृह्यत इति सारः । एवं च स्पर्शरसगन्धरूपेषु स्वाश्रयाधिकदेशवृत्तित्वमुक्तम् । 'गुणाद्वालोकवत्' इत्यत्र रूपस्यात्र त्रयाणामिति तत्र सर्वेषां स्पर्शादीनां स्वाश्रयाधिकदेशवृत्तित्व- मनुभवविरुद्धमपाणादावित्यतिप्रसङ्गरूपमाशङ्क्य वारयन्ति न चैवमिति । उत्कटत्वेत्यादि उत्कटत्वावच्छेदकस्पर्शत्वादित्वेनानिर्गमत्वेन कार्यकारणभावः । अनुत्कटत्वावच्छेदकस्पर्शादित्वे- नानिर्गमत्वेन कार्यकारणभाव इत्यर्थः । संक्षेप इति विस्तरस्तु रश्मिरेवान्योप्यूह्यः । न च विद्वन्मण्डने गन्धमात्रातिरिक्तेऽतिमात्रकथने च संकोच इत्यत्र गन्धमात्रस्य स्वाश्रयाधिकदेश- वृत्तित्वमुक्तं तद्विरोध इति वाच्यम् । गन्धस्यैव बुद्धिसत्त्वात् । अत एव सूत्रकारोपि सिद्धं दृष्टान्त- माहेमां शङ्कां परिहर्तुमणुत्वसाधने व्यतिरेको गन्धवदित्युत्तरग्रन्थेऽस्य सूत्रस्यैव बुद्धिविषयत्वस्फोर- णात् । अत एव ननु रूपरसादीनामप्येवमन्यत्रोपलम्भः स्यादिति चेन्न स्यादेवोपलम्भो यदि स्वाश्रयमपहायान्यत्र तिष्ठेयुरिति ग्रन्थः संगच्छते । एतदालोच्यैव गन्धेनैवेत्यादिग्रन्थ इति ज्ञेयम् । अन्यथेत्यादीति । अर्वाचीननैयायिकोक्ता, पूर्वोक्ता स्वाश्रयाधिकदेशवृत्तित्वे युक्तिरूपान्या कल्पना त्वयुक्ता उक्तयुक्तेरिति भाष्यार्थः । उक्तमिति लोकप्रतीतिस्त्वित्यादिनोक्तम् ॥ २६ ॥ तथा च दर्शयति ॥ २७ ॥ केत्याकाङ्क्षायामाहुः एतद्विषयेति एष चासौ विषय एतद्विषयस्तस्य वाक्यम् । बालाके इति संबोधनम् । अशायिष्टेति सुषुप्तोऽभूत् । यत्रैतदिति यन्न निमित्ते एतच्चैतन्यमभूत् । यत इति स्वप्नस्थानादेतच्चैतन्यम् । पुरीततमिति हृदय- वेष्टनं पुरीतत् । अभिपतन्वन्ति अभितो निःसरन्ति । कृत्स्नशरीरं व्याप्यन्वन्त्योऽश्वत्थपर्णराजय इव बहिर्मुखाः प्रसूता इति यावत् । विपाटितः विभागं प्रापितः । यस्य कस्यचित्केशो येन केनापि 1374

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1484, कुल 2600 में से · BharatKosha