अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1494, कुल 2600 में से
संदर्भ में पढ़ें८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १३ सू० २१ इदमत्र वक्तव्यम् । सर्वोपनिषत्सु ब्रह्मज्ञानं परमपुरुषार्थसाधनमिति तन्निर्णयार्थं भगवान् व्यासः सूत्राणि चकार । तत्र ब्रह्मसूत्रे विचारं प्रतिज्ञाय जगत्कर्तृत्वाद्यसाधारणलक्षणं ब्रह्मणः प्रतिज्ञाय समन्वयनिरूपणे जीववाक्यानि दूरीकृत्य अविरोधेपि, ऐक्येपि अहिताकरणादिदोषमाशङ्क्य, 'अधिकं तु भेदनिर्देशात्' इति परिहृत्य जीवस्याणुत्वमुपचाराद् ब्रह्मत्वमंशत्वं पराधीनकर्तृत्वादिकं प्रतिपाद्य तस्यैव दक्षिणमार्गेण पुनरावृत्तिमुक्त्वा ससाधनेन ब्रह्मज्ञानेन अर्चिरादिद्वारा ब्रह्मप्राप्तिमुक्त्वा, न स पुनरावर्तत इत्यनावृत्तिं वदञ्छास्त्रपर्यव- सानेन सर्वान् वेदान्तानव्याकुलतया योजितवान् । तत्र कश्चित् तद्गुणव्यपदेशेन प्रोक्तानि तत्त्वमस्यादिवाक्यानि स्वीकृत्य जीवमात्रं च ब्रह्म स्वीकृत्य तदतिरिक्तस्य सर्वस्य कारणांशकार्यरूपस्य मिथ्यात्वं परिकल्प्य तद्बोधकश्रुतीनामर्थवादत्वेन मिथ्यात्वं स्वीकृत्य सुषुप्तिसंपत्त्योर्भगवता प्रकटीकृतमानन्दरूपत्वं तत्प्रतिपादकवाक्यानां सद्योमुक्तिरूपफलवाचकत्वमुक्त्वा भाष्यप्रकाशः । इति वा युक्तम्, उत तच्छब्दद्वयेऽपि ब्रह्मैव परामृश्यत इति ब्रह्मगुणसारत्वाज्जीवे ब्रह्मत्वव्यपदेश इति वा युक्तम्, इत्येतत् कथं निश्चेतुं शक्यमित्यत आहुः इदमित्यादि । अस्मिन् सूत्रे यदस्मा- भिव्याख्यातं तदेवाभिप्रेतम् । कुत इत्याकाङ्क्षायां हेतुं व्याकुर्वन्ति सर्वोपनिषत्स्वित्यादि योजितवानित्यन्तम् । चतुर्वेदस्थितासूपनिषत्सु, 'ब्रह्मविदामोति परम्' 'तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय, तमेव विदित्वा अतिमृत्युमेति'इत्यादिजातीयवाक्यदर्शनाद् ब्रह्मज्ञानं परमपुरुषार्थसाधनम् । जीववाक्यानि दूरीकृत्येति जीवबोधकवाक्यानि जीववाक्यानि तानि निराकृत्य, तेषु जीवबोधकवाक्यत्वं निराकृत्य अविरोध इति द्वितीयाध्याये । अविरोधे- नेति तृतीयान्तपाठे तु तस्य प्रतिपाद्येत्यनेनान्वयः । ऐक्येऽपीति अंशांशिभावेनैक्येऽपि । शेषं स्फुटम् । तथाच यस्मादेवं शास्त्रार्थस्तस्मादित्यर्थः । पूर्वरीत्या व्याख्यातुः शंकराचार्यस्य तात्पर्य- माहुः तत्र कश्चिदित्यादि । स्वीकृत्येति महावाक्यत्वेनादृत्य । सर्वस्येतिपदस्यैव विवरणं, कारणांशकार्यरूपस्येति कारणरूपस्यांशरूपस्य कार्यरूपस्य चेत्यर्थः । अर्थवादत्वेनेति । गौण्या बोधकत्या असदर्थवादत्वेन । प्रकटीकृतमानन्दरूपत्वं तत्प्रतिपादकवाक्याना- रश्मिः । भिन्नविषये वैय्यधिकरण्यं इति शब्देन्दुशेखरेऽस्ति । पूर्वोक्ततच्छब्दविषय उपाधिरूपोऽर्थः स परामृश्यत इत्यर्थः । उपाधीत्यादि अयमग्रे स्वयं वक्ष्यः । श्रीमदाचार्यव्याख्यामाहुः यदिति द्वितीयकोटिरूपम् । इत्यादिजातीयेति ऋग्वेदे 'तमु स्तोतारः पूर्व्यं यथाविदः' इत्यादि । मुण्डकोपनिषद्य्योंकारो विदितो येन स मुनिरिति । सामवेदे तलवकारशाखोक्तकेनोपनिषदि विद्यया विन्दतेऽमृतमित्यादि । अथर्वणि वेदे मुण्डकोपनिषत् 'एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सौम्य' इत्यादि इति । एवमित्यादिजातीयवाक्यदर्शनादित्यर्थः । ब्रह्मज्ञानमिति फलात्मकं ज्ञानम् । भक्तिरूपं वा सर्वात्मभावाख्यं ज्ञानं च 'पुरुषार्थोतः शब्दात्'इत्यधिकरण उक्तम् । भक्ति- स्त्वादिकमस्य तत्रैव स्फुटम् । शेषमिति । भाष्ये तस्यैवेत्यारभ्य फलाध्यायार्थ उक्तः । ससाधनेनेत्यं- शेन तन्मध्ये एव साधनाध्यायार्थो दर्शितः । अयमर्थोधिकरणमालायां स्फुटतमः । पूर्वेति । प्रथमकोटीरीत्या । स्वीकृत्येति स्वीकारं कृत्वैवेत्यर्थः । असदिति गुणवादत्वेन त्रिष्वर्थवादेषु 1384