भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1496, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1496

वादिनस्तत्साधारण्याच्च । नच भेदे अद्वैतप्रतिज्ञाविरोधान्नित्यत्वमेवाभेदे पर्यवस्यति । अनादित्वं च मिथ्यात्वे । अतो न हेतो दोष इति वाच्यम् । प्रतिज्ञाया वक्ष्यमाणेनांशांशिभावेन, 'पराऽस्य शक्तिर्विविधैव'इत्यादिश्रुतेः शक्तिशक्तिमद्भावेन चाविरोधे नित्यत्वानादित्वयोरुक्तपर्यवसानस्यैव दुर्घटत्वात् । नचांशांशिभावे निष्कलश्रुतिविरोधः । 'श्रुतेस्तु शब्दमूलत्वात्' इत्यत्र विरुद्धधर्मा- श्रयत्वाङ्गीकारेणैव परिहृतत्वात् । नापि निर्गुणश्रुतिविरोधः । तस्याः प्राकृतगुणनिषेधपरत्वात् । तस्मादुत्पत्त्यश्रवणस्य जीवब्रह्मतागमकत्वम् । नापि परस्यैव ब्रह्मणः प्रवेशश्रवणस्य । तथाहि । प्रवेशो नाम संयोगो वा तज्जनिका क्रिया वा । नाद्यः । कार्यसृष्टिमात्रादेवन्तर्वहिश्च तत्संभवेन पृथक् तदुक्तिवैय्यर्थ्यप्रसङ्गात् । तत एव नामरूपव्याकरणसिद्ध्या ल्यबन्तप्रयोगानावश्यकत्वप्र- सङ्गाच्च । न द्वितीयः । व्यापकत्वस्य क्रियाविरुद्धत्वात् । वस्तुतस्तु न तत्र जीवरूपेण स्वप्रवेश उच्यते, किंतु जीवसाहित्येन स उच्यते । द्वा सुपर्णादिश्रुत्यनुसारेण जीवपदगततृतीयायाः सहार्थे वक्तुं शक्यत्वात् । अन्यथा आत्मनेत्यस्य वैय्यर्थ्यप्रसङ्गात् । नचेतरव्यपदेशाधिकरणभाष्ये, जीवेनात्मनेत्यात्मपदस्य जीवविशेषणत्वाङ्गीकारान्नवमिति शङ्क्यम् । तस्य पूर्वपक्षमूत्रत्वात् । तदनुरोधेन तत्र तथा व्याख्यानस्य सिद्धान्तीत्यत्वेन वक्तुमशक्यत्वात् । तस्मात् प्रवेशश्रवणस्यापि त्वमुत्पत्त्यश्रवणस्येति लक्षणसमन्वयः । प्रकृतेऽनुमानं तु जीवः ब्रह्म, उत्पत्त्यश्रवणात् । यन्नैवं तन्नैवं घटादिवदित्युक्तमाभासे । तथा च तस्य हेतोः साधारण्यं तत्साधारण्यं तस्माच्चेत्यर्थः । भेद इति । अंशांशिनोर्भेदे जीवः ईश्वर इति, संज्ञा भेदसाधिका पूर्वतन्त्रे सिद्धा । नित्यत्वमिति जीवीयं भेदप्रयोजकमपि ध्वंसाप्रतियोगित्वं नित्यत्वं ध्वंसावृत्ति त्रैकालिकाबाध्ययोग्यत्वमीश्वराभिन्नत्वमीश्वराभेद इत्येवं पर्यवस्यति । एवकारो नित्यत्वेतरस्याभेदे पर्यवसाने नित्यत्वस्य भेदापादकत्वभिया नित्यत्वेतर- योग्यव्यवच्छेदकः । अनादित्वं च जीवीयनित्यत्वसमानाधिकरणमादिमत्वाभावः । ईश्वरीयानादित्वेन पुनरुक्तं गुरुभूतं च । एवं च गुरुत्वं पुनरुक्तिभियाऽनादित्वं मिथ्या, मिथ्यात्वमनादित्वस्य लक्षणमित्येवं मिथ्यात्वे पर्यवस्यतीत्यर्थः । अत इति नित्यभिन्नाभावात् । तथा च साध्यवदन्यस्याः प्रकृतेर्विशेषणाभावेन क्षतशाक्तान्ताभावादप्रसिद्ध्या साधारण्यलक्षणानाक्रान्तत्वेन हेतोर्न हेतौ साधारण्यलक्षणो दोष इत्यर्थः । प्रवेशेति 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इति श्रुतौ प्रवेशश्रवणस्य । संयोग इति । फलमेव धात्वर्थ इति मण्डनमिश्राः । 'फलव्यापारयोर्धातुः' इति भूषणे । कार्येति मात्रच् कात्स्न्ये । तत्समिति संयोगसंभवेन । तथा च स्मृतिः । 'बहिरन्तश्चावृत्तम्' इति । तदु- क्तीति । प्रवेशोक्तिवैय्यर्थ्यप्रसङ्गात्तथ च हेतुर्दुष्ट इति भावः । प्रवेशशब्दश्च न त्यक्तुं शक्य इति च । पक्षासाध्ये पूर्वोक्ते । अनेन जीवेनेति श्रुतौ किंचिदाहुः तत इति अन्तर्बहिर्वर्तमानादीश्वरादेव । व्यापकेति आत्मनेत्यत्राततीत्यात्मेति व्युत्पत्त्या । सहार्थ इति । अयमर्थः ल्यबन्तकर्तृत्व- विशिष्टस्यैव व्याकरणकर्तृत्वम् । करणार्थस्वे तु तृतीयाया जीवरूपः प्रवेशकर्ताऽस्मदर्थो व्याकरणकर्ते- त्युपाधिभेदात् क्त्वाविधायकसूत्रस्य विरोध इति सहार्थे तृतीया, वदनाशक्तावेव करणतृतीयेति । अन्यथेति अनेन जीवेन करणेनेत्येवं जीवस्य करणत्वे आत्मना व्यापकत्वेन प्रवेशक्रियाविरुद्धेन विशिष्टेनेत्यर्थादनुस्यूतात्मभिन्नत्वेनास्य वैय्यर्थ्य प्रवेशविरुद्धत्वेन चास्य वैय्यर्थम् । न च विरुद्धधर्मा- श्रयत्वेनात्मनोऽपि करणत्वमिति वाच्यम् । व्याकरणकर्तृभिन्नत्वेनास्य वैय्यर्थम् । न च शब्दमूलत्वा- देवमेव साधुः प्रवेश इति वाच्यम् । शास्त्रस्यास्य न्यायत्वात् । चत्वारो वेदाः षडङ्गानि पुरातनमिति-