अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1531, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२५ यथा च तक्षोभयथा ॥ ४० ॥ ननु कर्मकराणां कर्तृत्वभोक्तृत्वभेदो दृश्यते तथा कर्तृत्वभोक्तृत्वयोर्भेदो भविष्यतीति चेन्न । यथा तक्षा रथं निर्माय तत्रारूढो विहरति, पीठं वा । स्वतो वा न व्याप्रियते वाश्यादिद्वारेण वा । चकारादन्येऽपि स्वार्थकर्तारः । अन्यार्थ- मपि करोतीति चेत् तथा प्रकृतेऽपि सर्वहितार्थं प्रयतमानत्वात् । नच कर्तृत्वमात्रं दुःखरूपम् । पयःपानादेः सुखरूपत्वात् । तथाच स्वार्थपरार्थकर्तृत्वं कारयितृत्वं च सिद्धम् ॥ ४० ॥ इति द्वितीयाध्याये तृतीयपादे कर्ता शास्त्रार्थवत्त्वादिति चतुर्दशमधिकरणम् ॥१४॥ परात्तु तच्छ्रुतेः ॥ ४१ ॥ (२-३-१५) कर्तृत्वं ब्रह्मगतमेव तत्संबन्धादेव जीवे कर्तृत्वं तदंशत्त्वादैश्वर्यादिवत् । न तु