अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1538, कुल 2600 में से
संदर्भ में पढ़ें५३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १६ सू० ४३ 'सर्वंशेन जडाः पूर्वं चिदंशेनेतरे अपि । अन्यधर्मतिरोभावान्मूलेच्छातोऽक्षतश्श्रिणः' इति ॥ ब्रह्मवादे अंशपक्ष एव । ननु अंशत्वे सजातीयत्वमायाति । श्रुत्यन्तरे पुनर्ब्रह्मदाशा ब्रह्ममे कितवा उत । अत्र सर्वस्यापि ब्रह्मविज्ञानेन विज्ञानप्रतिज्ञानाद् दाशादीनामपि ब्रह्मत्वं प्रतीयते । तत्कार्यत्व एव स्यादिति चेन्न । अन्यथा चापि प्रकारान्तरेणापि भाष्यप्रकाशः। एवं सृष्टिं कारणस्वरूपं चोक्त्वा जडजीववैलक्षण्ये हेतुमाहुः सर्वंशेनेत्यादि । वैलक्षण्ये क्रमे च विस्फुलिङ्गश्रुतिरेव प्रमाणमिति वैलक्षण्यरूपान् कार्यादेवं कारणविभागोऽनुमीयते । 'स इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवताम्' इति श्रुत्यन्तरे तथा दर्शनात् । जडजीवयोर्विरुद्धधर्माधारत्वाभावे युक्तिमाहुः अन्येत्यादि । अन्य आनन्दांशस्तस्य धर्मा विरुद्धधर्माश्रयत्वं तस्य तिरोभावो येषु तादृशाः । तत्र हेतुर्मूलेच्छा, 'प्रजायेय' इतीच्छा ततः । अक्षतस्त्रिण इति क्षतश्वो ब्रह्मभावस्तद्रन्तः क्षतस्त्रिणस्तद्भित्रा म्राह्मेभ्यो देहादिभ्यो मुक्तेभ्यो जीवेभ्यश्च भिन्ना इत्यर्थः । तथाचैवं श्रुतौ लोकविरुद्धस्य सर्वतःपाणिपादत्वादेः श्रावणेन ब्रह्मणि निरंशेऽपि लोकविरुद्धस्य सांशत्वस्य व्युच्चरणादिश्रुतिगलेनाङ्गीकर्तुं शक्यत्वाद् विरुद्धधर्माश्रयत्वं युक्तिरिति तथा श्रुतिमूलकयुक्त्या ब्रह्मवादे अंशपक्ष एवाद्रियते, तं विहाय केवलं निष्कलश्रुतिं पुरस्कृत्यौपचारिकत्वांशत्वकल्पनया सर्वश्रुतिविप्लवो न कर्तव्यः। ब्रह्मणो लोकविलक्षणत्वादित्यर्थः । अंशत्व एव किंचिदाशङ्क्य सूत्रांशेन परिहरतीत्याशयेनाहुः नन्वित्यादि । अत्रेति अस्यां श्रुतौ । तत्कार्यत्व एव स्यादिति तेषां ब्रह्मत्वं ब्रह्मकार्यत्व एव युज्येत, घटमृदोरिव दाश्वादित्रह्मगोर्वैजात्यस्य स्फुटत्वात् । तथाच व्युच्चरणश्रुत्युक्तानां प्राणलोकादीनामिवार्मनामपि रश्मिः। जडजीवेति । व्युच्चरन्तीत्यत्र वि विशेषेण वैलक्षण्येन । अनुमीयत इति कार्यं विभक्तं वैलक्ष- ण्यात्, घटपटादिवत् यच्चैवं तच्चैवं अनेकपटवदित्येवमनुमीयते । स इममिति बृहदार- ण्यके पुरुषविधाब्राह्मणेऽस्ति । आपातयदित्यत्र पतनं विभागानुकूलो व्यापार इति तथा । जडेति कारणधर्मयोग्ययोः । तद्भिन्ना इति । अक्षतस्त्रिण इत्यत्र भेदो नञर्थ इति भावः । 'क्षतश्चः कर्ता' इति न व्याख्यातम् । अन्यथासंभवादतस्तिरोहितासानन्दत्वाविर्भावो ब्रह्मभावस्तद्वानन्तिकोऽयमे सति स विधिकीर्षितः कर्तृत्वे मुख्यो मुख्यंस्यप्रयोजकः सर्वात्मभावस्ततोपि मुख्य इति सोर्थ उक्तः । युक्तिरिति 'आगमस्याविरोधेन ऊहनं तर्क उच्यते' इत्यमृतबिन्दूपनिषदः । ऊहनं विरुद्धधर्माश्रय- त्वस्येति विरुद्धधर्माश्रयत्वपदं सोहने लाक्षणिकम् । विरुद्धधर्माणामाश्रय आश्रयणं यत्रोहन इति बहुव्रीहिर्वा । ब्रह्मवाद् इति भाष्यविवरणं ब्रह्मवाद् इति । एवेति । अनेकभूतभौतिक- देवतिर्यङ्मनुष्यानेकलोकानुत्तरचनानुष्ठत्रह्माण्डकोटिरूपस्य मनसाप्याकलयितुमशक्यरचनसानायासे- नोत्पत्तिस्थितिमङ्गकरणं न लौकिकमिति भाष्येऽशक्यरचनस्येत्युक्त्यानिर्वचनीयकर्तृत्वानुपकेरवेति अन्यथा निलाणुपरिमाणकमगवत्संबद्धो जीवेन कृत उत्पद्येत । लोकेति अनिर्वचनीय- त्वात् । इम इति प्रत्यङ्गेनेन प्रयोगेन । एवेति केवलनां जीवाना मप्रत्यक्षत्वात्- 1428