भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1556, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1556

स्वयं स्वरूपेणैव कुर्व्वन्नाना नेति नानात्वं निषिध्य तादृशे यः प्राणादिनानात्वं पश्यति तस्य निन्दा क्रियते । तेन भ्रान्तप्रतिपन्ननानात्वस्य दर्शन एव निन्दापर्यवसानं, न तु कार्यभेदेन ज्ञाते तस्मिन् 'प्राणन्नेव प्राणो भवति' इति श्रुत्यैव नानात्वस्याङ्गीकारात् । यथैकः पुरुषः पाचनपाठनादीनि नानाकार्याणि कुर्व्वन्नाना न भवतीति तद्वद् ब्रह्मापीत्यदोषात् । एतेनैव, 'न ह्यस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया अन्यदिव' इत्युत्तरतापनीयोक्तं समर्थितं ज्ञेयम् । अंशांशिभावेनैव नानाकार्यकरणेऽपि स्वरूपैक्यानपायात् । इदं च मत्कृतनृसिंहतापनीव्याख्याना- देवावगन्तव्यमिति नेह प्रपञ्च्यते । नच, 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति' इति श्रुतिविरोधः । अत्र भेददर्शने दोषस्यानुक्तत्वात्, कुरुते इति पदेन तथा निश्चयात् । क्रियासाध्यस्य तस्य भेदस्योपमानादिकरणे एव संभवात् । तस्मादयमेव पक्षो निर्दुष्ट इति ॥ ५३ ॥ इति षोडशं अंशो नानाव्यपदेशादित्यधिकरणम् ॥ १६ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य तृतीयः पादः ॥ २ ॥ ३ ॥ पातयित्वा तत्तदधिकारानुसारिणी क्रीडेति । नानात्वं पश्यतीति । ननु नानात्वं भेदस्तमिव पश्यतीत्युक्त्येवार्थो भेद इति श्रुतिविरुद्धमिति चेन्न । भेदस्यैवार्थत्वात् । इव इव पश्यतो दोषात् । इव इवात्यन्ताभेदः । 'अविभक्तं च भूतेषु' इति गीताविरोधात् । भ्रान्तेति भ्रान्ता नैयायिकादयः । तैः प्रतिपन्नं नानात्वं तद्यथा । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यत्र श्रुत्यां यः नाना इव पश्यति तस्य मृत्युर्भवति न तु नाना नामभेदं पश्यत इति । तथा नानेव पश्यति तस्य मृत्योर्मृत्युर्भवति किं पुनर्नानानामभेदं पश्यत इति । तस्य दर्शन इत्यर्थः । पर्यवेति नहि श्रुतिः श्रुत्येकशरणव्याख्यानं निन्दति किंतु स्वभाष्यवर्तमानानां स्वार्थवादत्वमङ्गीकुर्वतां च व्याख्यानमिति पर्यवसानपदम् । तस्मिन्निति भेदे । 'कार्यकारण- वस्त्वैक्यमर्षणम्' इति वाक्यात् । एवेति । गौणप्रमाणव्यवच्छेदः । अन्यदिवेति भेदवदिव । स्वरूपेति तत्त्वमस्यादिवाक्येभ्यः । उत् अरं स्वल्पमपि अन्तरं भेदम् । कुरुत इति करणार्थक- धातुपेदन । अभावादीति आदिना दुःखनाशौ । अयमिति मुख्यांशांशिपक्षः ॥ ५३ ॥ इति पञ्चदशं अंशो नानाव्यपदेशादित्यधिकरणम् ॥ १६ ॥ इति श्रीविठ्ठलेश्वरेश्वरधर्मनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण संपूर्णवेद्या विट्ठलरायभ्रात्रीयेण गोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ द्वितीयाध्यायस्य तृतीयः पादः संपूर्णतामगमत् ॥ २ ॥ ३ ॥ १. अरिस्वन्तरमते । 1446