अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1556, कुल 2600 में से
संदर्भ में पढ़ेंस्वयं स्वरूपेणैव कुर्व्वन्नाना नेति नानात्वं निषिध्य तादृशे यः प्राणादिनानात्वं पश्यति तस्य निन्दा क्रियते । तेन भ्रान्तप्रतिपन्ननानात्वस्य दर्शन एव निन्दापर्यवसानं, न तु कार्यभेदेन ज्ञाते तस्मिन् 'प्राणन्नेव प्राणो भवति' इति श्रुत्यैव नानात्वस्याङ्गीकारात् । यथैकः पुरुषः पाचनपाठनादीनि नानाकार्याणि कुर्व्वन्नाना न भवतीति तद्वद् ब्रह्मापीत्यदोषात् । एतेनैव, 'न ह्यस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया अन्यदिव' इत्युत्तरतापनीयोक्तं समर्थितं ज्ञेयम् । अंशांशिभावेनैव नानाकार्यकरणेऽपि स्वरूपैक्यानपायात् । इदं च मत्कृतनृसिंहतापनीव्याख्याना- देवावगन्तव्यमिति नेह प्रपञ्च्यते । नच, 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति' इति श्रुतिविरोधः । अत्र भेददर्शने दोषस्यानुक्तत्वात्, कुरुते इति पदेन तथा निश्चयात् । क्रियासाध्यस्य तस्य भेदस्योपमानादिकरणे एव संभवात् । तस्मादयमेव पक्षो निर्दुष्ट इति ॥ ५३ ॥ इति षोडशं अंशो नानाव्यपदेशादित्यधिकरणम् ॥ १६ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य तृतीयः पादः ॥ २ ॥ ३ ॥ पातयित्वा तत्तदधिकारानुसारिणी क्रीडेति । नानात्वं पश्यतीति । ननु नानात्वं भेदस्तमिव पश्यतीत्युक्त्येवार्थो भेद इति श्रुतिविरुद्धमिति चेन्न । भेदस्यैवार्थत्वात् । इव इव पश्यतो दोषात् । इव इवात्यन्ताभेदः । 'अविभक्तं च भूतेषु' इति गीताविरोधात् । भ्रान्तेति भ्रान्ता नैयायिकादयः । तैः प्रतिपन्नं नानात्वं तद्यथा । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यत्र श्रुत्यां यः नाना इव पश्यति तस्य मृत्युर्भवति न तु नाना नामभेदं पश्यत इति । तथा नानेव पश्यति तस्य मृत्योर्मृत्युर्भवति किं पुनर्नानानामभेदं पश्यत इति । तस्य दर्शन इत्यर्थः । पर्यवेति नहि श्रुतिः श्रुत्येकशरणव्याख्यानं निन्दति किंतु स्वभाष्यवर्तमानानां स्वार्थवादत्वमङ्गीकुर्वतां च व्याख्यानमिति पर्यवसानपदम् । तस्मिन्निति भेदे । 'कार्यकारण- वस्त्वैक्यमर्षणम्' इति वाक्यात् । एवेति । गौणप्रमाणव्यवच्छेदः । अन्यदिवेति भेदवदिव । स्वरूपेति तत्त्वमस्यादिवाक्येभ्यः । उत् अरं स्वल्पमपि अन्तरं भेदम् । कुरुत इति करणार्थक- धातुपेदन । अभावादीति आदिना दुःखनाशौ । अयमिति मुख्यांशांशिपक्षः ॥ ५३ ॥ इति पञ्चदशं अंशो नानाव्यपदेशादित्यधिकरणम् ॥ १६ ॥ इति श्रीविठ्ठलेश्वरेश्वरधर्मनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण संपूर्णवेद्या विट्ठलरायभ्रात्रीयेण गोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ द्वितीयाध्यायस्य तृतीयः पादः संपूर्णतामगमत् ॥ २ ॥ ३ ॥ १. अरिस्वन्तरमते । 1446