अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1560, कुल 2600 में से
संदर्भ में पढ़ें१५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १ सू० १ त्तिरत्रातिदिष्टा, चिदंशस्यापि तिरोभाव इति पृथङ् निरूपणम् । ननु तद्गुण- सारत्वाद्यः कथमुपदिश्यन्त इति चेन्न । सत्यम्, अस्ति तत्रापि, 'ये प्राणं ब्रह्मो- पासते' इति ॥ १ ॥ भाष्यप्रकाशः। तिदेशकत्वेनोपदिष्टेत्यर्थः । ननु सर्वोपपत्तिसाम्ये जीवधर्मातिदेशार्थादेव सिद्धेरिदं सूत्रं पूर्वपाद एव प्रणीतं स्यात् पृथक्पादान्तरे विचारस्य किं प्रयोजनमत आहुः चिदंशेत्यादि । तथाच जडत्वाद्वियदादितुल्यत्वं संभाव्येतेति तन्निवृत्त्यर्थं पृथग्विचार इत्यर्थः । अत्र जीव- साम्यमन्वानः पृच्छति नन्वित्यादि । ननु सर्वोपपत्तिमध्ये तद्गुणसारत्वतद्व्यपदेशौ गुणानां यावदात्मभावित्वमन्ये च धर्माः प्रविष्टास्ते च प्राणविषयका न प्रसिद्धास्ते कथमुच्यन्ते इत्यर्थः । अत्र समादधते नेत्यादि । अयं पर्यनुयोगो न कार्यः । बृहदारण्यके, 'प्राणा वै सत्यं तेषामेष सत्यम्' इति श्रुत्युक्तं सत्यमस्ति । तैत्तिरीये तत्र प्राणेष्वपि 'ये प्राणं ब्रह्मोपासते' इति व्यपदेशोऽस्ति । एवं षडाचार्यब्राह्मणे 'प्राणवाक्चक्षुःश्रोत्रमनोहृदयेषु प्राणो वै ब्रह्म वाग् वै ब्रह्म' इति व्यपदेशोऽस्ति । 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन इतरेण तु जीवन्ति रश्मिः। 'यत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः' इति । उदाहरणमपि 'यथा सर्वाणि भूतानि व्युच्चरन्तीत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते' इति । अस्माद्वयं पदघटितान्न्यायाद्भूयसां जीवधर्माणां स्वधर्मत्वविधानाज्जीवसमानधर्मातिदेशकत्वे- नोपपत्तिस्तथाशब्देन सूत्र उपदिष्टेत्यर्थः । यद्यपि धर्मवदुपपत्तिरतिदेष्टुं शक्या, तथापि धर्मेष्वति- दिष्टत्वं तथाशब्दे सौत्रेतिदेशकत्ववदुपदेशकत्वस्याप्यतिदेशकत्वाविरुद्धस्य वक्तुं शक्यत्वं मन्वानैरेव- मुक्तम् । एतदेवाशङ्कामुखेनाहुः नन्विति । सर्वोपपत्तीति प्राणस्य जीवसर्वोपपत्तिसाम्ये । जीवधर्मेति । न तूपपत्त्यतिदेशस्य । भाष्य उपपत्तिरतिदिष्टा धर्मातिदेशफलिका । अर्थादिति आक्षेपात् । एवकारेण पृथग्विचारो व्यवच्छिद्यते तदर्थम् । पूर्वेति जीवनिरूपणात् । एवका- रस्तु । 'अयमात्मा ब्रह्म' 'ये प्राणं ब्रह्मोपासते' इति श्रुत्योर्विरोधस्य परिहारेण पादार्थसंगतेः । तेन प्राथमिकतद्गुणसारत्वं समर्थितम् । वियदादीति आदिनाऽऽकृष्टम् । अन्य इति पुंस्त्वादि- सूत्रोक्ताः । प्रविष्टा इति अष्टमे पूर्वतन्त्रे हविर्गणाधिकरणे देवतासामान्यरूपं सादृश्यमतिदेशकमत्र धर्मैः सादृश्यरूपा सर्वोपपत्तिरित्येवं प्रविष्टा इत्यर्थः । उच्यन्त इति उपासनार्थमुपदेश्यत्वेन तथेति शब्देनोच्यन्त इत्यर्थः । उपदिश्यन्त इति भाष्ये उपदेशविषयाः क्रियन्ते यद्यपि तथाप्यन्यधातु- नापि विवरणदर्शनादुच्यन्त इति विवरणमुक्तम् । सत्यमन्त्रार्थाङ्गीकारे, नेत्याहुः । बृहदिति मूर्ता- मूर्तब्राह्मणे समाप्तौ । तेषामिति प्राणानाम् । सत्यमस्तीति सत्यमुपासनम् । सति साधुत्वात् । ननु प्राणानामेष सत्यमित्यत्रैतच्छब्देन समीपतरवर्त्युक्तः नोपासनमिति चेत्सत्यम् । तर्हि प्राणा वै सत्यमि- त्युक्तं सत्यमस्तु । प्राणानामुपासनं सत्यम् । 'आत्मानं रथिनं विद्धि' इत्युक्त्वा 'सदश्वा इव सारथेः' इत्युक्तेः । इन्द्रियेषु सत्त्वमुपासने साधुत्वं दैवीसंपत्त्वमिति यावत् । व्यपदेश इति तद्व्यपदेशः ब्रह्मत्वव्यपदेश इति यावत् । षडाचार्येति प्राणादयः षडाचार्याः । ननु मिताक्षरायां बृहदा- रण्यकटीकायां षडाचार्यकूर्चब्राह्मणमिति कथनाद्विरोध इति चेन्न । कूर्चब्राह्मणमेतस्मादग्रेऽस्ति तेन षडाचार्यकूर्चब्राह्मणमित्युक्तेः। सर्वान्तरगतानां गुणानां यावदात्मभावित्वं प्रपञ्चयन्ति स्म न प्राणेनेति । 1450