भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1623, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1623

भाष्यप्रकाशः । समाभ्यधिकराहित्यस्य तत एव सिद्धेर्न्यूनद्वितीयसद्भावा उपगतत्वाच्चाद्वितीयपदव्याकोपस्य दुर्वारत्वापत्तेः । नच 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किंचन मिषत्'इत्यत्रेवात्र मिष- द्द्वितीयनिषेध एवास्त्विति वाच्यम् । तदापि येनाश्रुतं श्रुतं भवतीत्यादिप्रतिज्ञाया मृत्पि- ण्डादिदृष्टान्तानामीक्षणविषयसोत्तमपुरुषस्य, सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यदित्यनुवीक्षणस्य च विरोधापत्तेर्दुर्वारत्वात् । अतस्तत्र कालोक्तिः सुषुप्त्यन्वयव्यवहारे सर्वाधारतया प्रतीयमानस्य कालस्योपरञ्जनेन शिष्यस्य पूर्वकालवृत्तान्तबोधनार्थैव । अन्यथा शिष्यस्य सृष्टिकालवर्त्तित्वात् कालसत्तामवधारयतः पूर्ववृत्तान्तबोधाभावेऽनुशासनवैयर्थ्यप्रसङ्गात् । नतु कालस्य ब्रह्मणः पृथक्सत्ता बोधनार्था । उक्तदोषप्रसङ्गात् । तस्मात् सृष्टेः पूर्वं केवलं ब्रह्मैवेति निश्चयः । तत् सर्वभवनसमर्थमतो धर्मरूपेण भवद् इच्छारूपेणापि भवति । नच निमित्तान्तराभावे सर्वदा भवतीति शङ्कनीयम् । आपादनहेतुभूतस्य कालस्याभावात् । जाते तु पुनः काले तस्यैव निया- मकत्वान्न सर्वदा भविष्यति । कालश्च श्रुताविच्छादिविशेषणत्वेनोक्त इतीच्छादिभिः सहैवा- विर्भवति सहैव च तिरोभवतीति भगवद्धर्मास्त्रैकालिकाऽबाधविषयत्वात् कालवत् सर्वेऽपि नित्याः । नच सदेव सोम्येदमग्र इत्यत्र व्युत्पादितं कालोक्तेर्बोधनार्थत्वमिह ग्रहीतुं शक्यम् । तन्नियामकस्याद्वितीयादिपदस्येहाभावात् । नापि, सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधीति रश्मिः। मेवेत्यनयोः शब्दयोर्मुख्यमेवेत्यर्थान्मुख्यादन्ये ये एतद्वाक्येतरवाक्यप्रतिपादितास्तेषां सत्ताया निवार- कत्वात् । द्वितीयेति । 'एकमेवाद्वितीयं ब्रह्म' इत्यत्र । मिषदिति व्यापारं कुर्वत् । उत्तमेति प्रजायेयेत्युत्तमपुरुषस्य । विरोधेति कालविशिष्टस्य विशेषणत्वेन नीचभावात्स्वच्छन्दायैन ग्रहणाद्विरोधाप- त्तिरीक्षणविषयसोत्तमपुरुषस्य । एवेति एवकारस्तु कालस्रष्टा सद्रूपस्य क्रियाशक्तिः सान्नाग्रपदार्थ इति पक्षव्यवच्छेदकः । अग्रपदार्थे काले सदेवान्न तु सत्यग्रपदार्थ इति सप्तमीविरोध इति । यद्वा अग्रे कालसम्बन्धे सदेवार्थः । वाच्यत्वं सप्तम्यर्थः । पूर्वेति कालो हि जगदाधार इत्याचारं विना तथा । अधिष्ठानस्य कारणत्वमिति केचित् । उक्तेति अप्रामाणिकगौरवादिदोषप्रसङ्गात् । ब्रह्मैवेति एवकारेण काल- विशिष्टेति विशेषणं व्यवच्छिद्यते । धर्मेति सत्त्वादिधर्मरूपेण वृक्षरूपेण वा वेदार्थो वृक्ष इति 'अथातो धर्मजिज्ञासा' इत्यत्रापि सः । वेदान्तदर्शितरूपं कया........चित्क्रीडया पुराणे अश्वत्थरूपं शापेन जात- मिति कथा तद्गीतायाम् 'ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्' इत्युक्तधर्मरूपेण । भवदिति इच्छा- विशिष्टमिति बोध्यम् । इच्छापि सर्वभवनसमर्थरूपमेव धर्मरूपेण भवदिति सुबोधिन्याः । अपिनेश्वरस्य- स्वरूपं सर्वभवनसमर्थरूपमेव । इच्छेति विशेषेच्छारूपेण । सर्वदेति तथा च स्थितिप्रलयभङ्ग इति भावः । आपादनेति यदि सृष्टिकालः स्यात् सर्वदा तदा सर्वदा भवेदिति वाक्यस्यापादनहेतुभूतस्य । तस्यैवेति । एवकारेण कर्मस्वभावौ व्यवच्छिद्येते इच्छा वा व्यवच्छिद्यते । सामान्यत्वात् सृष्टीच्छा नोक्ता । कारणत्वांशे गौरवात् । अन्यदाहुः कालश्चेति । श्रुताविति 'सोकामयत बहु स्यां प्रजायेये'ति' 'स तपोतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किंच' इति श्रुतौ । इच्छादीति कामः, प्रजननम्, तपः, सृष्टिश्चादिस्तच्छब्दाभ्याम् । तद्विशेषणत्वेन भूतानद्यतनकालिकः कामः इच्छा । इहकालिकं प्रजननम् । भूतानद्यतनकालिकं तपः । भूतानद्यतनकालिका सृष्टिरित्येवं विशेषणत्वेनैव । एवकारो विशेष्यसम्बन्ध- च्छेदकः । न च वैपरीत्ये एवकारो व्यर्थ इति वाच्यम् । श्रुतौ विशेषणत्वेनैवोक्तो न तु विशेष्यत्वेने- त्यर्थात् । आविर्भवतीति सहजतया नोक्ता नाविर्भवति । भगवदित्यादि सङ्ग्रहादयः । अद्वितीय्येति । २८ ब्र० सू० २० 1513

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1623, कुल 2600 में से · BharatKosha