अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1625, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २१९ भाष्यप्रकाशः । दानन्दरूपेण भिन्नोऽपि तयेच्छया मिलितोभिन्न इवाखण्डो भवति । तदपेक्षया कार्यरूप- स्याल्पत्वात् । तानि त्रीण्यपि रूपाणि पूर्णशब्देनोच्यन्ते । 'पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते' इति । अर्थस्तु—अदः परोक्षं ज्ञानैकघनम् अक्षरं ब्रह्म पूर्णं निरन्तरमाकाशवद् व्यापि । इदं परि- दृश्यमानं सद्रूपं क्षरं ब्रह्म पूर्णं पूर्ववत् । पूर्णात् पूर्णमवति व्याप्नोति तादृशं तदुभयव्यापकं पूर्णमुत् पूर्णानन्दं ब्रह्म अच्यते, अभ्रु गतिपूजनयोः, अच इत्येक इति धातुपाठादचधातुः पूजार्थकः, पूज्यते, पूर्वोक्ताभ्यां सच्चिद्रूपाभ्यां क्षराक्षराभ्यां सेव्यते । एवं ज्ञानादेः फलमाह । पूर्णस्यानुपदोक्तस्य पूर्णं ज्ञानादिधर्ममादाय तत्प्रसादेन प्राप्य पूर्णमेवावशिष्यते तत्सायुज्येन तदभिन्नो भवतीति । पूर्णत्वादेव सद्रूपस्य प्रत्येकपर्यवसायित्वम् । एवं धर्मरूपेण शक्तिरूपेण धर्मिरूपेण च नानाभूय पश्चात् कार्यरूपेण नाना भवतीति बहु स्यामित्यस्य कार्यम् । एवं च बृहदारण्यकोक्तं व्यावरणं तैत्तिरीयाद्युक्ताकाशादिसंभूतिश्च तत एव । प्रजायेयेत्यस्य तु जन- रश्मिः। रूपं ब्रह्मैवाकाशवत् । न तु 'तत्तु समन्वयात्' इत्यत्र निमित्तत्वस्य साकारत्वात्साकारत्वम् । भिन्नोपीति धर्मिणः । अपिनाऽभिन्नः । कार्यात्मना भेद इति महतः सङ्कर्षणोऽप्यण्डसंसक्तः सर्वभूतस्तृतीयसहितः 'कार्यकारणवस्त्वैक्यमर्पणं पटतन्तुवत्' इति सप्तमस्कन्धात्कार्यकारणवस्त्वैक्य- मर्पणे च प्रतीतसाकारतेच्छया मिलितः 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतायाः खण्डस्थितविषयत्वान्मिलिते । 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति बृहदारण्यकदोष- स्याप्यप्राप्तेर्गीतैकादशाध्यायोक्तसर्वव्यापकगुरौ लोकेऽप्रतिमप्रभावस्वरूपे 'तत्रैकस्थं जगत्कृत्स्नं प्रवि- भक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा' इत्यत्रैकेन शरीरेण मिलितोऽभिन्न इव भवति । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति श्रुतिः । भिन्नोपस्थितावभिन्न इति खण्डोपस्थिताव- खण्डो भवति । महत्स्रष्टृमात्रं तु सर्ववादानवसरं नानावादानुरोधीत्यखण्डमपि । अल्पत्वादिति । सखण्डत्वमिति शेषः । कारणाभावेन कार्यकारणवस्त्वैक्यमर्पणाभावात् । अनेन तृतीयं सर्वभूतस्थ- मुक्तम् । ज्ञानैकेति पुरुषोत्तमवज्ज्ञानमेवैकं मुख्यं त्रिषु तस्य घनं दृढं नपुंसकत्वं छान्दसं निबिडम् । 'तदश्मसारं हृदयम्' । 'आत्मैवेदमग्र आसीत्पुरुषविधः' । पूर्ववदिति निरन्तरमाका- शवद्व्यापि । तदुभयेति क्षराक्षरव्यापकम् । ज्ञानादेरिति ज्ञानं शाब्दम् । माहात्म्यज्ञानजमग्रिमञ्च । अक्षरज्ञानानन्तरं कर्म च । पूर्णमेवेति कार्यस्य कारणापत्तिर्युक्तेत्येवकारः । घटादेः कपाला- वापत्तिर्दृश्यत इति । ननु सदेव सोम्येति श्रुतिमुपक्रम्य विचारः प्रवृत्तः । श्रुतौ तु क्षराक्षर- पुरुषोत्तमा उक्ता इति प्रत्येकं सद्रूपस्य पर्यवसायित्वं कथमित्याशङ्क्य तानि त्रीण्यपीत्यादिग्रन्थ- तात्पर्यमाहुः पूर्णत्वादेवेति । एवकारेण सत्त्वं व्यवच्छिद्यते । तस्य सन्मात्रवृत्तित्वेन निरन्तराकाश- वद्व्यापित्वाभावात् । शक्तीति सर्वतः पाणिपादान्तत्वादिः शक्तिः तद्रूपेण । बहु स्यामिति ईक्षणस्य । कार्यमिति नानाभवनं कार्यं पूर्वोक्तैक्षणस्य । बृहदिति तत्रैव द्रष्टव्यम् । तैत्तिरीयेति । 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्यादितैत्तिरीयोक्ता । आदिना भागवतं ग्राह्यम् । यथा तृतीयस्कन्धपञ्चमे—'कालमायांशयोगेन' इत्यादिना । तत इति सत एव । एवकारस्तु विदा- १. केवलम् । 1515