अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1627, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। २२१ भाष्यप्रकाशः। वाच्यः। अत एव सर्वसद्भूतेष्वष्टाविंशतितत्त्वेषु तत्त्वमिति व्यपदेशः। एवं यदा आनन्द उत्कृष्टो जातस्तदितरौ तं सेवमानौ जातौ। ततश्च तयोर्धर्मौ ज्ञानक्रिये भगवच्छक्तिरूपे जाते। तदा स आनन्दो ज्ञानक्रियाशक्तिमान् जातः। इत्येकरूप उच्चनीचभावः। अथापरः सदंशस्तु क्रियाङ्गैकर्गतत्वादंशेनाव्यक्ततामापद्यते प्रकृतिरूपो भवति। पश्चान्मूलभूतक्रियांशाभिः क्रिया- भिर्धर्माधर्म्यं श्रौतेन पौराणेन वा प्रकारेणाभिव्यज्यते। चिदंशस्तु ज्ञानधर्मस्यानन्दे गतत्वा- दंशेन पुरुषो जीवसमष्टिरूपो मुख्यजीवो भवति। तदा चिदंशस्य शक्तिर्माया तं व्यामोहयति। तदा तया व्यामोहितो व्याकुलः सन् सदानन्दकृतसृष्टौ य आसन्न्य- रश्मिः। इति गोपालतापनीयात्। मायापदं तु श्वेताश्वतरे