अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1629, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः । एवेन्द्रियाधिष्ठातारः, कदाचिदिन्द्रियानन्तरमित्येवं कारणसृष्टिक्रिया दर्शिता । विशिष्य तु द्वितीयस्कन्धसुबोधिनीतत्प्रकाशान्मत्कृतादवगन्तव्या ॥ २२ ॥ इति दशमं मांसादिभौममित्यधिकरणम् ॥ १० ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य श्रीपीताम्बरात्मजस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य चतुर्थः पादः ॥ २ ॥ ४ ॥ समाप्तोऽयं द्वितीयोध्यायः ॥ २ ॥ रश्मिः । मुण्डक आत्मनोवतारा इति माध्वाः । इन्द्रियानन्तरमिति 'सर्वतः पाणिपादान्तं सर्वतो- ऽक्षिशिरोमुखम्' इति श्रुत्युक्तेन्द्रियानन्तरं देहविशिष्टा इत्यर्थः ॥ २२ ॥ इति मांसादिभौममित्यधिकरणम् ॥ १० ॥ इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण संपूर्णवेद्या विट्ठलरायभ्रात्रीयेण गोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ द्वितीयाध्यायस्य चतुर्थः पादः संपूर्णतामगमत् ॥ २ ॥ ४ ॥ एतावतो ग्रन्थस्य श्लोकानां संख्या १४५२५ सार्धचतुर्दशसहस्रपञ्चविंशतिः ईति ॥