अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 165, कुल 2600 में से
संदर्भ में पढ़ें७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ इति भगवद्वचनात् केवलस्य निन्दाश्रवणादिति चेत् । न । फलकामनाया अनुपयोगात् । अन्येनैव तत्समर्पणात् । नित्यत्वाच्चार्थज्ञानस्य न फलप्रेप्सुरधि- कारी । निन्दार्थवादस्तु मननादिविधिशेष इति मन्तव्यम् । भाष्यप्रकाशः । कारिणेत्यनङ्गीक्रियमाणोऽपि वैराग्याद्यानन्तर्यपक्षोऽधिकारिबलादापतित इत्यर्थः । अत्र समादधते नेत्यादि । विचागधिकारित्वेन फलकामना तदोपयुज्येत, यदि ब्रह्म जिज्ञासा- पदात् प्राप्येत। तन्न । अनन्यलभ्यस्य शब्दार्थत्वात् । अतस्त्रैवर्णिकोऽर्थजिज्ञासुरेवाधिकारी । फल- कामना तु, ब्रह्मविदाप्नोति परमित्यादिवाक्यार्थे ज्ञात उत्पद्यत इति तेन समर्पिता । फलं चार्थज्ञानस्य नैकम् । भार्गव्यां विद्यायामन्यत्र च, य एवं वेद प्रतितिष्ठतीत्यादिफलान्तराणामपि श्रवणात् । ततश्च भवदभिमताधिकार्यङ्गीकारेऽन्येषामनधिकारेण विचारे प्रवृत्तौ विहितायां तच्छास्त्रमेव व्यर्थं स्यात् । अतस्तदभावायार्थजिज्ञासोरेवाधिकारित्वं वक्तव्यम् । अर्थज्ञानं च नित्यम् । ‘स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्थम्’ इत्यादिष्वनर्थज्ञानिनिन्दाश्रवणात् । अतोर्थ- ज्ञानस्य नित्यत्वं ज्ञात्वा यो जिज्ञासति स एव मुख्योऽधिकारी । नच निन्दार्थवादविरोधः । तस्य मननविधिशेषत्वात् । शब्दब्रह्मणि निष्णातकथनोत्तरं तत्कथनेन तथार्थस्य लाभात् । विचारं विना रश्मिः । शब्दब्रह्मणीत्यादि तस्य विशेषापत्तिरित्यर्थः । निष्णातोऽर्थविषयकशाब्दज्ञानवान्परं साधनैर्न निशामयेत् । अधेनुमप्रसूतिं गां रक्षतः श्रम इवेति वाक्यविषमपदार्थः । अत इति जिज्ञासापदा- दित्यर्थः । एवेति ‘तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्’ इति वाक्यादेवकारः । अन्येनैवेत्यादि भाष्यं विवृण्वन्ति फलकामनेत्यादि । ज्ञात उत्पद्यत इति फलकामनायाः फलेच्छारूपत्वेन जानाति इच्छति यतते इति ज्ञाते उत्पद्यते । एवकारसाफल्याद्युक्तिमप्याहुः फलं चेत्यादि । फलान्तराणामिति । प्रतिष्ठाश्रवत्त्वान्नादत्वादिनामित्यर्थः । अन्येषामिति परंप्रेप्सोरतिरिक्तानां प्रतिष्ठादिप्रेप्सूनामित्यर्थः । तच्छास्त्रमिति । ‘य एवं वेद प्रतितिष्ठति’ इत्यादि फलान्तरनिरू- पकं शास्त्रमित्यर्थः । युक्तिस्तु यदि अर्थजिज्ञासुरधिकारी स्यात् फलान्तरनिरूपकं शास्त्रं व्यर्थं स्यादिति । नित्यत्वादित्यादि भाष्यं विवृण्वन्ति अर्थज्ञानं च नित्यमित्यादि । निन्दार्थवाद इति भाष्यं विवृण्वन्ति न च निन्दार्थवादेत्यादि । तस्य मननेत्यादि तस्य निन्दार्थवादस्य । ‘नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुम्’ इति न्यायेन परं मन्वीत इत्याक्षिप्तस्य विधेः शेषत्वात् । तया च अर्थज्ञानवतः परादृष्टः श्रमः श्रमफल इति परं द्रष्टुं मन्वीतेति । यथा ‘प्रातः प्रातरनृतं वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्’ इत्यस्यानुदितहोमनिन्दार्थवादस्योदितहोमस्तावकत्वं तद्वत् । ननु शब्द- ब्रह्मपाठी तदर्थज्ञानवांश्च भवेत्तदा दोष इति वदत्कथं परे व्यापृणोतीति चेत्तत्राहुः शब्दब्रह्मणी- त्यादि । तथार्थस्येति उक्तार्थस्येत्यर्थः । तथा च निष्णातपदमहिम्ना परे व्यापृणोतीति भावः । नन्वे- तर्ह्यपि दर्शनविधिशेषत्वमस्तु तत्राहुः विचारमिति । तथा चावश्यकत्वान्न मननविधिशेषत्वमित्यर्थः । अथवा ‘आत्मा वा अरे’ इति श्रुत्युक्तमननविधिशेषत्वादित्यर्थः । विधिशब्देन पूर्वं पूर्वमीमांसायां तव्यो विधौ न त्वावश्यके, आनन्तर्यवादिना व्यवहारे वयं भाट्टा इति वक्तृत्वात् । भाष्ये तु १. य एवं वेद प्रतितिष्ठतीत्यादिफलान्तरनिरूपकं शास्त्रम् । 78