अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1658, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३
ससाधने हि पुरुषे जन्मना कर्मणा शुचौ । केवले वा यथा योगे प्रथमं तद् विचार्यते ॥ १ ॥ विचारपूर्वकं तस्य ब्रह्मभावाप्तियोग्यता ।
भाष्यप्रकाशः।
ननु यद्युपनिषन्निष्ठबोधकताप्रकारचिन्तनमेतदध्यायर्थः, तदा संसारगतिप्रभेदसन्धयसुषुप्तादि- बोधकानामधिकरणानां कथं सङ्गतिरित्यकाङ्क्षायां पादानांमर्थांन्निमिराहुः ससाधन इत्यादि। **'ब्रह्मविदामोति पर'**मिति परप्राप्तिसाधनतया यज्ज्ञानमुक्तम्, तदपरोक्षमेव विवक्षितम् । 'तस्मिन् दृष्टे परावरे' 'आत्मन्येवात्मानं पश्येत्' **'सर्वं हि पश्यः पश्यती'**त्यादिषु दृशेः प्रयोगात् । तच्च न शब्दश्रवणमात्रादिति मननादिविधिभिरवसीयते । यत्र पुनः शब्दश्रवणमात्रात्, तत्रापि शुद्धिरवश्यमस्तीति फलबलादेव ज्ञायते । ततः पूर्वं शुद्धिर्मृग्या । हि अतो हेतोः जन्मना कर्मणा शुचौ विचाररूपसाधनसहिते पुरुषे विद्यां जनयन्ति, वा अथवा, केवले जन्मकर्मावदातत्वाभावेऽपि वरणमात्रविषये । तत्र दृष्टान्तः यथा योगे । अतो **'निर्विवयं नित्यं मनः कार्यं मुमुक्षुणे'**ति- श्रुतेर्जन्मादिशुद्धिरहितेऽपि केवले वरणविषये मनःशोधनपरे च पुरुषे जनयन्ति । 'यदि शैलसमं पापं विस्तीर्णं योजनान् बहून्, भिद्यते ज्ञानयोगेने'ति योगबोधकध्यानबिन्दुश्रुते'र्योगेनैव **दहेद्देहो नान्यत् तत्र कदाचने'**ति श्रीभागवतवाक्येन तत्र साधनान्तरानपेक्षणात् । एवं वरणेऽपि, 'पापकर्षण' इति । **'अपूतः पूतो भवति मां स्मृत्वे'**ति तापनीयश्रुतेः । 'कोटिजन्मार्जिते पापे कृषिः क्लेशे च वर्तते । भक्तानां णश्च निर्वाणे तेन कृष्णः प्रकीर्तित' इति ब्रह्मवैवर्तवाक्याच्च भक्तानां पापनिवृत्तेः शुद्धेश्च भगवतैव सम्भवात् । एवं त्रिविधेष्वधिकारिषु भगवदिच्छया सम्भवत्सु मुख्यमध्यमयोर्वरणयोगाभ्यामेव सिद्धिरिति तन्न विचार्यते, किन्तु प्रथमं प्रथमे पादे, तत् जघन्याधिकारिणां शुचित्वं विचार्यते । तादृशेषु दययैव व्यासचरणानामेतदुद्यमात् । तथाचोपो- द्घातः सहकारिसम्पत्तिरूपस्तदर्थः । ततो द्वितीये पादे जीवभावस्थादिविचारपूर्वकं तस्य जीवस्य ब्रह्मभावप्राप्तियोग्यता स्वरूपतो योग्यत्वम् । तत्तत्त्वविचारेण अधिकारे मुख्यधिकारे जीवस्य सिद्धे
रश्मिः।
न शब्दश्रवणेति । 'वेदान्तविज्ञानसुनिश्चितायां' इति श्रुत्युक्तात् । तव्यस्य विधौ विधानादाहुः मननेति । ननु भक्तौ 'श्रेयोभिर्विविधैर्धान्यैः कृष्णे भक्तिर्हि साध्यत' इति वाक्याद्वेदान्तवाक्ये मननादिविधिनिवेशे किं बीजमित्यत आहुः यत्रेति । यथा परीक्षितः । 'पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृत'मितिवाक्यात् । फलं मोक्षः । एवकारश्शद्वाचक- शब्दव्यवच्छेदकः । वेदान्तविज्ञानश्रुतौ तद्वाचकः शब्दोस्ति । तत इति । श्रुतेः फलफलाच्च । वरणेति । वरणं स्वीयत्वेनाङ्गीकारः, न भक्तिः । वरणजसर्वात्मभावेति वक्ष्यमाणत्वात् । वरणं सर्वत्र कारणम्, अतो न प्रदानवत्सूत्रविरोधः । 'नायमात्मे'त्यादिश्रुती अत्र द्रष्टव्ये । वरणं पुष्टिरिति । 'पोषणं तदनुग्रह' इति वाक्यात् । इदं भक्तिहेतुग्रन्थे स्पष्टम् । भक्तिहेतुग्रन्थे पुष्टिमर्यादयोरेवानुग्रह- साध्यत्वम्, न सर्वात्मभावस्येति चेत् । न । सर्वात्मभावदानस्याकस्मिकत्वापत्तेः । ज्ञानेति । ध्यानयोगेने- त्यपि पाठः । दार्ष्टान्तिके योजयन्ति स्म एवं वरण इति । पापेति । सप्तम्यन्तम् । वरणे पापकषर्णत्वं जीवधर्मे वरणे, ब्रह्मधर्मः पापकषर्णं स्वाश्रिताश्रितत्वसम्बन्धेन । स्वं जीवः इत्याशयेनाहुः अपूत इत्यादि । भगवतैवेति । एवकारेण साधनान्तरव्यवच्छेदः । त्रिविधेति । जन्मकर्मभ्यां शुचौ विचाररूपसाधन- सहिते । जन्मकर्मावदातत्वाभावेपि वरणमात्रविषये । दययैवेति । गुरुत्वात्कृपालुत्वम् । 'कृपालुरकृत- तद्रोह' इति वाक्यात् । एवकारस्तु कृपालुत्वधर्मविरोधिधर्मव्यवच्छेदकः । सहेति । शुचित्वरूपसहक-
1539