अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1675, कुल 2600 में से
संदर्भ में पढ़ेंगच्छन्ति। क्रममुक्तावपि देहसम्बन्ध इति पौराणिकाः। देवभाव इत्यौपनिषदाः। अतो दूरे प्राणगतिरत्रैव। अतोऽपां संश्लेषो वक्तव्यः। चकारात् 'विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चे'ति कर्मसहभावं बोधयति श्रुतिः। तस्मादद्भिः परिव्वक्तो गच्छति ॥ ३ ॥ भाष्यप्रकाशः। प्राणा गच्छन्ति। क्रममुक्तावपि 'वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषे'- त्यादिभिर्देहसम्बन्ध इति पुराणाचार्याः शुकादयः सूचयन्ति। उद्गीयमाह्लाणे तु प्राणानां देवभाव- स्तदुपासनयेत्यौपनिषदा आहुः। अतो दूरे प्राणगतिरत्रैवास्मिन्नेव प्रकारे। अतः सद्योमुक्तिं विहाय सर्वत्र देहसम्बन्धोऽस्तीत्यत्राप्यावश्यक इत्यपां संश्लेषो वक्तव्यः। श्रुतिश्च कर्मसहभावं बोधयतीत्य- तोऽपि तथेत्येतत्प्रयोजनं विशेषविचारस्येत्यर्थः। एतेन 'उपाधिकल्पितावच्छेदः परमात्मैव जीवः, स च सूक्ष्मदेहपरिक्वक्तो रंहति। तस्य कर्मोपस्थापितप्राप्यदेहविषयाया भावनाया दीर्धीभावमात्रं जलौकावदुपमीयत' इत्येकदे- शिमतम्। 'स्वर्गे नरके वा यत्र फलभोगस्तत्र तादृशां भूतमात्राणां सुलभत्वात्मनां व्याप- कत्वात् करणानां चाहङ्कारिकत्वेन तथात्वात् तत्र वृत्तिलाभमात्रम्, न तु कस्यापि गम- न'मिति सांख्यमतम्। 'मनसो नित्यत्वात् तदेव भोगस्थानपर्यन्तं गच्छति, इन्द्रियाणि त्वभिनवानि जायन्ते। तदात्मनस्तत्र वृत्तिलाभाद्भोग' इति काणभुजमतम्। एवमन्येषां बाह्यानां च यानि मतानि 'जीव एवोत्प्लुत्य देहाद्देहान्तरं गच्छती'ति, 'देह एवात्मा, स च नश्यतीति न कस्यापि गमन'मित्यादीनि तानि सर्वाण्येवापास्तानि ॥ ३ ॥ रश्मिः। सूचयन्ति श्रीभागवताद्याचार्याः। दूर इति। सद्योमुक्त्यादौ तु हृदो बहिर्भगवति शरीरान्तरे च समीपा। अत इत्यादिभाष्यं विवृण्वन्ति स्म अत इति। अत्रापीति। अत्र प्रकारे। वक्तव्य इति। भूतसंस्कारार्थम्। चकारादित्यादिभाष्यं विवृण्वन्ति स्म श्रुतिरिति। भाष्योक्ता श्रुतिः। तथेति। देहसम्बन्धः। किञ्च, भाष्ये तस्मादित्यस्य लौकिकयुक्तिसद्भावादित्यर्थात्त्यादद्भिः परिव्वक्तो गच्छति। एतेनेति। अगोऽष्टकमणसाधनेन। एवकारोऽन्यव्यवच्छेदकः। रंहतीति। अन्तःकरणावच्छिन्नो जीवो भवतीत्यन्तःकरणावच्छिन्नत्वं स्वरूपसम्बन्धविशेषो रंहति। भावनाया इति। 'तं विद्याक- र्मणी' इति श्रुत्युक्तप्रज्ञायाः। ज्ञानरूपत्वेन जीवसाम्यात्फलसाधनयोर्वैयधिकरण्याभावाय। मात्रचोक्ता- वच्छेदे परमात्मनोऽविकृतत्वं व्यवच्छिद्यते। जलौकेति। 'जलौकासदृशो बुद्धिरूपभावनादीर्घीभाव' इति वाक्यात् लक्षणत्वेन पूर्वं ज्ञातस्य ततः पदार्थस्फुरणेन स्फुरितस्य सादृश्यस्य संस्कारेण शब्दामिव्यक्तौ दृष्ट- संवादनिश्चितप्रामाण्यस्य च वाक्यस्य च सहकारेणायं दीर्धीभावपदवाच्य इत्युपमीयते। सुलभमेति। अदृष्टवशात्। अह्मिति सांख्ये प्रसिद्धम्। करणानामिति। इन्द्रियाणामाहङ्कारिकत्वेनाहङ्कारस्य मनो- भेदत्वेन तथात्वात् सुलभत्वात्। तत्रेति। देहान्तरे वृत्तिलाभस्थाने। मात्रचा गमनव्यवच्छेदः। भोग इति। सुखदुःखसाक्षात्कारः। जीव इति। देहेन्द्रियसम्बन्ध आलेति मुण्डाः। 'बुद्धिश्चित्तं समालम्ब्य तता निर्विषयाथवा। स्वरूपविषयाहंधीर्जीव इत्यभिधीयत' इति दिगम्बराः। समेति। विषयीकृत्वा तता। देह आला उक्तः। द्विसम्बध्यते। देहजन्यत्वं देहत्वम्। एवकारोऽतियुक्त्या। तानीति। मतानि। एवेति। स्वस्य परमार्थोदेवकारः। अपेति। गौणगमनापत्या तया ॥ ३ ॥ 1556