अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1677, कुल 2600 में से
संदर्भ में पढ़ें३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० १ सू० ४. 'अथ हैनँ जारत्कारव आर्तभागः पप्रच्छे'त्यत्र ग्रहनिरूपणानन्तरं मृत्युं पृष्ट्वा म्रियमाणप्रश्ने, 'नामैव न जहात्यन्यज्जहाती'ति प्रतिज्ञाते, प्राणोत्क्रमणप्रश्ने, 'ने'ति प्रतिवचने, वागादीनामग्न्य्यादिभावानुवादः । ततो मन्त्रणाज्जीवस्य ब्रह्मभावोऽवग- म्यते । सामग्र्या गतत्वात् । 'तौ ह यदूचतु'रिति कर्मप्रशंसा भिन्नप्रश्नोत्तरा । भाष्यप्रकाशः । इति श्रुतेर्ब्रह्मणि लयो वा, 'स वाचमेव प्रथमामत्यवह'दिति श्रुत्युक्तरीत्या देवभावो वा भवतीति देवभावपक्षमादाय प्रवृत्तेयं श्रुतिः प्रकरणव्यतिरेकेणामुक्तविषये त्वयोच्यत इति तत्र प्रवृत्ता अप्यय- मिव बोधयन्ती भक्ता भवतीत्येवं भाक्तत्वमित्यर्थः । एवमविरोधपक्षो विवृतः । द्वितीयं विवरीतुं विषयश्रुतेः सर्वमर्थमाहुः अथेत्यादि । मृत्युं पृष्ट्वेति । 'कास्वित् सा देवता यस्या मृत्युरन्न'मित्य- नेन मृत्युविषयकं प्रश्नं कृत्वा । प्राणोत्क्रमणप्रश्ने, नेति प्रतिवचन इति । 'उदस्मात् प्राणाः क्रमन्त्याहो ने'ति प्रश्ने, तत्र च नेति प्रतिवचने । ततो 'यत्रास्य पुरुषस्य मृतस्ये'त्यादिना वागादीनामग्न्य्यादिभावानुवादः । ततः 'क्वायं तदा पुरुषो भवती'तिप्रश्ने, 'आहर सौम्य हस्त'मित्या- दिना मन्त्रणाज्जीवस्य ब्रह्मभावोऽवगम्यते । सांसारिकभोगसामग्र्या गतत्वात् । नच मन्त्रणव्याख्यान- श्रुतौ कर्मप्रशंसाया उक्तत्वान्मन्त्रणस्य न जीवब्रह्मभावबोधकत्वमिति शङ्क्यम् । 'तौ होत्क्रम्य मन्त्र- याञ्चक्राते'रित्यनेनैव समापनात् । ततः 'तौ यदूचतु'रित्यादिनोक्ता या कर्मप्रशंसा सा एतद्भिन्न- रश्मिः । प्येतीति साध्यवत् । स वाचमिति । बृहदारण्यकेऽस्ति । स प्राणः । अत्यवहत् स्वस्वरूपं प्रापितवान् । तत्रेति । अमुक्तविषये प्रवृत्ताप्यप्यमिवाप्ययं भक्तं बोधयन्ती भक्तेत्यर्थः । द्वितीयमिति । परस्परेति भाष्योक्तं व्यवस्थापकम् । अथेत्यादीति । भाष्ये । एनमित्यादि । याज्ञवल्क्यम् । जारत्करूगोत्रः । ऋत- भागस्य पुत्रः । ग्रहेति । इन्द्रियनिरूपणानन्तरम् । 'चक्षुर्वै ग्रह' इति श्रुतेः । कास्विदित्यादि । कास्वित् तर्के । भाष्ये । म्रियमाणेति । 'यत्रायं पुरुषो म्रियते किमेनं न जहातीति, नामेती'ति श्रुतेः । शुको मुक्तो वामदेवो मुक्त इति नामव्यवहारपारम्पर्यान्नाम न जहातीत्यर्थः । प्रकृते । वागादीनामिति भाष्यं विवृण्वन्ति स्म तत इति । अग्न्य्यादीति । नेति प्रतिवचनस्य 'नेति होवाच याज्ञवल्क्योत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेत' इति रूपत्वेन तदनन्तरं 'यत्रास्य पुरुषस्ये'त्यादिश्रुतौ 'समवनी- यन्त' इति पूर्वश्रुत्युक्तसमवनयनोक्ताग्न्यादिभावानुवादः । तत इति भाष्यं विवृण्वन्ति स्म ततः क्वाय- मिति । हेतुभाष्यं विवृण्वन्ति स्म सांसारिकेति । जनसङ्गे जनसमूहे । ब्रह्मभावेति भाष्यं विवरीतुमाहुः अत्रेति । तद्योग्यस्मरणाँस्तथा । तथाच श्रुतिः 'आर्तभागेति होवाच आवामेवैतद्वेदिष्यावो नावेतत्सं- जन इति तौ होत्क्रम्य मन्त्रयांचक्रतु'रिति । अग्रे 'तौ ह यदूचतु'रिति भाष्ये वक्ष्यमाणा श्रुतिः । न नावि- त्यादेरर्थः । नौ आवयोरेतद्वस्तु सजने जनसमूहे देशे निर्णेतुं न शक्यत इतीति । मन्त्रणव्याख्यानेति । 'तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशँसतुः कर्म हैव तत्प्रशशँसतुः पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपररामेति' मन्त्रणव्याख्यानश्रुतिस्तस्याम् । न जीवेति । कर्मरूपसाधनपरत्वाच्च तत्फलं जीवब्रह्मभावस्तस्य बोधकत्वमिति शङ्क्यमित्यर्थः । एवेति । अनेन फलसाधने एकीकृत्योक्तौ कर्मोक्तिरिति पक्षो व्यवच्छिद्यते । कर्म हैवेत्येवकारस्य फलव्यवच्छेदकस्य सत्त्वात् । समापनं ब्रह्मभावस्य तस्मात् । तौ हेति भाष्यं विवृण्वन्ति स्म ततस्ताविति । भिन्ने प्रश्नोत्तरे । यस्याः प्रशंसाया इत्यत्र षष्ठी विषयविषयिभावसम्बन्ध इत्याशयेनाहुः एतद्भिन्नेति । उभयोरिति भाष्यं विवृण्वन्ति स्म तौ 1558